________________ परिशिष्ट-१ नैषधीय-चरितम् (प्रथमः सर्गः) निपीय यस्य क्षितिरक्षिणः कथास्तथाऽऽद्रियन्ते न बुधाः सुधामपि / नलः सितच्छत्रितकीर्तिमण्डलः, स राशिरासीन्महसां महोज्ज्वलः // 1 // रसैः कथा यस्य सुधावधीरिणी, नलः स भूजानिरभूद् गुणाद्भुतः / सुवर्णदण्डैकसितातपत्रित - ज्वलत्प्रतापावलिकीर्तिमण्डलः // 2 // पवित्रमत्रातनुते जगद्यगे, स्मृता रसक्षालनयेव यत्कथा / कथं न सा मद्गिरमाविलामपि, स्वसेविनीमेव पवित्रयिष्यति // 3 // अधीतिबोधाचरणप्रचारणै - दशाश्चतस्रः प्रणयन्नुपाधिभिः / चतुर्दशत्वं कृतवान्कुतः स्वयं, न वेनि विद्यासु चतुर्दश स्वयम् // 4 // अमुष्य विद्या रसनाग्रनत की, त्रयीव नीताऽङ्गगुणेन विस्तरम् / . अगाहताष्टादशतां जिगीषया, नवद्वयद्वीपपृथग्जयश्रियाम् // 5 // दिगीशवृन्दांशविभूतिरीशिता, दिशां स कामप्रसरावरोधिनीम् / बभार शास्त्राणि दृशं द्वयाधिकां, निजत्रिनेत्रावतरत्वबोधिकाम् // 6 // पदैश्चतुर्भिः सुकृते स्थिरीकृते, कृतेमुना के न तपः प्रपेदिरे / भुवं यदेकाधिकनिष्ठया स्पृशन् , दधावधर्मोऽपि कृशस्तपस्विताम् // 7 // यदस्य यात्रासु बलोद्धतं रजः, स्फुरत्प्रतापानलधूममञ्जिम / तदेव गत्वा पतितं सुधाम्बुधौ, दधाति पङ्कीभवदतां विधौ // 8 // स्फुरद्धनुनिस्वनतद्धनाशुग-प्रगल्भवृष्टिव्ययितस्य सङ्गरे / निजस्य तेनःशिखिनः परश्शता, वितेनुरिङ्गालमिवायशः परे // 9 // अनल्पदग्धारिपुरानलोज्ज्वलै–निजप्रतापैर्वलयञ् ज्वलद्भुवः / प्रदक्षिणीकृत्य जयाय सृष्टया, रराज नीराजनया स राजधः // 10 //