________________ [ 341 स्मरोपततोऽपि भृशं न स, प्रभुर्विदर्भराज तनयोमयाचत / त्यज्यन्त्यसूञ्शम च मानिनो वरं, त्यजन्ति न त्वेकमयाचितव्रतम् // 50 // मृषाविषादाभिनयादयं कचिज्जुगोप निःश्वासतति वियोगजाम् / विलेपनस्याधिकचन्द्रभागता-विभावनाचापललाप पाण्डुताम् // 51 // शशाक निहोतुमयेन तत्प्रिया-मयं बभाषे यदलीकवीक्षिताम् / समाज एवालपितासु वैणिकै-मुमूर्छ यत्पश्चममूर्छनासु च // 52 // अवाप सापत्रपतां स भूपति-जितेन्द्रियाणां धुरि कीर्तितस्थितिः / असंवरे शंबरवैरिविक्रमे, क्रमेण तत्र स्फुटतामुपेयुषि // 53 // अलं नलं रोद्धुममी किलाभवन् , गुणा विवेकप्रमुखा न चापलम् / स्मरः स रत्यामनिरुद्धमेव यत् सृजत्ययं सर्गनिसर्ग ईदृशः // 54 // अनङ्गचिह्न स विना शशाक नो, यदाऽऽसितुं संसदि यत्नवानपि / क्षणं तदाऽऽरामविहारकैतवानिषेवितुं देशमियेष निर्जनम् // 55 // अय श्रिया भसितमत्स्यलाञ्छनः, समं वयस्यैः स्वरहस्यवेदिभिः / पुरोपकण्ठोपवनं किलेक्षिता, दिदेश यानाय निदेशकारिणः // 56 // अमी ततस्तस्य विभूषितं सितं, जवेपि मानेऽपि च पौरुषाधिकं / उपाहरनश्वमजस्रचञ्चलैः, खुराञ्चलैः क्षोदितमन्दुरोदरम् // 57 // अथान्तरेणावटुगामिमाऽध्वना, निशीथिनीनाथमहःसहोदरैः। निगालगावमणेरिवोत्थित-विराजितं केसरकेशरश्मिभिः // 58 // अजस्रभूमीतटकुट्टनोत्थितै-रुपास्यमानं चरणेषु रेणुभिः / रयप्रकर्षाध्ययनार्थमागते-र्जनस्य चेतोभिरिवाणिमाकितैः // 59 // चलाचलपोथतया महीभृते, स्ववेगदर्यानिव वक्तुमुत्सुकम् / / अलं गिरा वेद किलायमाशयं, स्वयं हयस्येति च मौनमास्थितम् // 60 // महारथस्याध्वनि चक्रवर्तिनः, परानपेक्षोद्वहनाद्यशः सितम् / रदावदातांशुमिषादनीदृशां, हसन्तमन्तबलमर्वतां रवेः // 61 // सितत्विषच्चञ्चलतामुपेयुषो, मिषेण पुच्छस्य च केसरस्य च / स्फुटं चलचामरयुग्मचिह्ननै-रनिह्नवानं निजवाजि राजताम् // 62 //