________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां पञ्चमः सर्गः [ 327 वृत्तिा-ज्ञानधनः-ज्ञानमेव धनं यस्य स तथा / केवलज्ञानीति यावत् / विश्वजनम्सकललोकम् / प्रतिबोधितुकामः-प्रतिबोधियितुमभीप्सुः / यद्यपि केवलिनः सहजैवेताहक प्रवृत्तिस्तथापि कामत्वेन साऽत्रोत्प्रेझितेति / सः-पूर्व निर्दिष्टः / गणेशवरः-गणधरमुख्यः / इत्थम्-पूर्ववर्णितेन प्रकारेण / विलपन्तम्-परिदेवयन्तम् , गणधरविहारजन्यविप्रलम्भदुःखेनेति यावत् / प्रणमन्तम्-नमस्कुर्वन्तम् / अमुम्-देवनृदेवगणम् / अमुञ्चत्-अत्यजत् / अपि-समुच्चये / विहारम्-विहृतिम् , गमनमिति यावत् / विजहार-चकार / नृत्यन्ति नृत्यमितिवदत्राप्यनुसन्धेयमिति यावत् // 60 // आनन्दजाश्रुभिरनुस्रियमाणमार्गान, व्यक्तान् पदानि निदधद् बहुवर्णसधैः / चक्रे ह्यनेकपमुखः सं गणे गणेशो-ऽप्यङ्गाश्रितत्रिपदिकागतभूरिलक्ष्म्यः // 61 // __ अन्वयः-अनेकपमुखः, स, गणेशः, बहुवर्णसङ्घः, अङ्गाश्रितत्रिपदिकागतभूरिलक्ष्म्याः, पदानि, निदधत् , हि, आनन्दजाश्रुभिः, अनुत्रियमाणमानि , अपि, व्यक्तान् , चक्रे // 61 // वृत्तिः-अनेकपमुखः-अनेकानसंख्याताञ्जनान् प्राणिनो वा पाति रक्षति दयोपदेशादिति अनेकपम् तादृशं मुखं वदनं यस्य स तथा / सः-प्रसिद्धः / गणेशः-गणाधीशः। बहुवर्णसधैःबहवः अनेकाश्च ते वर्णा अक्षराणि द्विजादयो वा बहुवर्णास्तेषां सङ्घाः समुदयाः बहुवर्णसंघास्तैस्तथा / अङ्गाश्रितत्रिपदिकागतभूरिलक्ष्म्या:-अङ्गानि द्वादशाङ्गी तानि आश्रिता समबलम्बिता, अङ्गाश्रिता सा चासौ त्रिपदिका उत्पादव्ययध्रौव्यात्मिकरूपा अङ्गाश्रितात्रिपदिका तां गता प्राप्ता सश्राश्रिता वा भूरिलक्ष्मीः प्रचुरश्रीः अङ्गाश्रितत्रिपदिकागतभूरिलक्ष्मीस्तस्यास्तथा / पदानिआगमपदानि / निदधत्-संस्थापयन् / हि-निश्चयेन / आनन्दजाश्रभिः-प्रमोदजनितबाष्पैः / अनुत्रियमाणमार्गान्-अनुस्रियमाणः सेव्यमानो मार्गो जैनागमो यैस्तेऽनुस्रियमाणमार्गास्तास्तथा / अपि-सम्भावनायाम् / व्यक्तान्-पण्डितान् / चक्रे-कृतवान् // 60 // लोकाननेकवचनामृतलुप्तदुःख-प्राक्शोकनिर्गमितनेत्रपयःप्रवाहान् / कुर्वन स सर्वविदनूक्तिरसात् तदोव्यां, रेजे सितद्युतिरिवाप्तगणाधिराजः // 61 // अन्वयः-प्राक्शोकनिर्गमिततेत्रपयःप्रवाहान , लोकान् , अनु , अनेकवचनामृतलुप्तदुःखान् , कुर्वन् , आप्तगणाधिराजा, सः, सर्ववित् , तदा , उक्तिरसात् , उम् i , सितद्युतिः, इव, रेजे // 61 / /