________________ 326 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे ___ अन्वयः-शौवपदस्य, पदवी, अवबुद्धा, दुर्णयवर्णितिः, निषिद्धा, एव, यदर्थम्, चेतसि, धृतः, असि, (तत् ) रूपम् , अदर्शि, स त्वम् , इह, कर्ता, असि // 18 // वृत्तिः-शैवपदस्य-शिवस्य मोक्षस्येदं शैवपदम , तस्य तथा / पदवी-पद्धतिः, मार्ग इति यावत् / अवबद्धा--ज्ञाता भवतेति शेषः / दुर्णयवर्णितिः-नयाभासघटना / निषिद्धानिवारिता / एव-अवधारणार्थकमव्ययम् / भवता गणधरेणेतिशेषः / यदर्थम्-यन्निमित्तमित्यर्थः / चेतसि-मनसि / अन्तःकरणे इति यावत् / धृतः--स्थापितः, तदवच्छेदेन निवासित इति यावत् / अमि-त्वम् अहमर्थकम स्मिसदृशं त्वमर्थमसीति अव्ययमत्र / रूपम् -स्वरूपम् / अदर्शि-दर्शितम् / तत्-ततः कारणात् / स त्वम्--भवल्लक्षणो जनः / इह-लोकेऽस्मिन् / कर्ता-ज्ञाता कर्तृत्वं ज्ञप्तृत्वम् , तद्वान , सर्वज्ञ इति यावत् / असि-भवसि, नान्य इति भावः // 58 / / देवनदेवगणः स्तुतिमेवं, तस्य चकार गणेशवरस्य / मानसतोऽपि च मा क्षणमात्र, गच्छ यथेच्छमथेत्यभिधाय // 59 // अन्वयः-अथ, देवनृदेवगणः, यथेच्छं, गच्छ, च, मानसतः, क्षणमात्रम् , अपि, मा, (गच्छ), इति अभिधाय, तस्य, गणेशवरस्य, एवम् , स्तुतिम् , चकार // 59 // . वृत्तिः-अथ-अनन्तरम् / देवनदेवगणः-देवा-अमराश्च, नृदेवा, नरदेवा भूपाला इति यावत् च देवनदेवास्तेषां गणः कदम्बकम् , देवनदेवगणः / यथेच्छम-निकामम् / स्वेच्छानुसारमिति यावत् / यद्वा-इच्छाभिलाषमनतिक्रम्य यथेच्छम् इत्यव्ययीभावसमासः / गच्छ-वज, विहरेति यावत् / च-पुनः / मानसतः-हृदयतः / क्षणमात्रम्-क्षणात्मकसूक्ष्मकालमभिव्याप्य / अपि-सम्भावनायाम् / मा-नहि / गच्छेति शेषः / इति--एवं प्रकारेण / अभिधाय-कथयित्वा / तस्य-प्रसिद्धस्य / गणेशवरस्य--गणाध्यक्षस्य / एवम्-पूर्वकथितप्रकारेण / स्तुतिम्-प्रशंसाम् , वर्णनमिति यावत् / चकार-कृतवान् // 59 / / इत्थम, विलपन्तममुञ्चत्, सोऽपि गणेशवरः प्रणमन्तम् / विश्वजनं प्रतिबोधितुकामो, ज्ञानधनो विजहार विहारम् // 60 // अन्वयः--ज्ञानधनः, विश्वजनम्, प्रतिबोधितुकामः, सा, गणेशवरः, इत्थम् , विलपन्तम् , प्रणमन्तम , अमुम् , अमुम्चत् , अपि, विहारम् , विजहार // 60 //