________________ -बाचार्यविजयामृतसूरीश्वरकृतायां विदिनोदिन्या पश्चमः सर्गः / वा / फलेग्रहिः-फलं लाभं प्रयोजनं प्रसवं वा गृहातीति, फलेपहिः / शान्तिजिनोदितागम:शान्तिः शान्तिनाथश्चासौ जिनो-जिनेश्वरः शान्तिजिनस्तेन उदित अदिष्टः प्रतिपादित इति यावत्, आगमः द्वादशाङ्गीरूपस्तथा / प्रमोदजन्यात्-प्रमोदात्सम्मदाजन्यं जनितं प्रमोदजन्यं तस्मात्तथा, षष्ठ्यर्थे पञ्चमी, तथा च प्रमादजन्यस्येत्यर्थः / तस्य-प्राप्तस्रवणस्य, द्रुतस्येति यावत् / नृपाश्रणः-नन् जनान् पान्ति-रक्षन्तीति, नृपाः प्रवरनरास्तेषामश्रु नेत्रजलम् , नृपाशु तस्य तथा / सेकात्-सेचनतः / बुबुधे-प्रबुद्धः, विकस्वरोऽभूदिति यावत् // 56 // दानमदादमदादमदान्ते-दर्दीनदयालुतयाऽवनिपालः / शस्यतमे पारसंस्मृतशान्ते-नाम्नि च विस्फुरिते श्रुतियोग्ये // 57 // अन्वयः-श्रुतियोग्ये, परिसंस्मृतशान्तेः, विस्फुरिते, च, शस्यतमे, नाम्नि, (श्रुते सति) अवनिपाला, दीनदयालुतया, दमदान्तेः, अमदात् , दानम् , अदात् // 57 // वृत्तिः- प्रतियोग्य-श्रवणमनोहरे, श्रवणावच्छेदेन आत्मन्यानन्दसमुत्पादनशालिनीति यावत् / परिसंस्मृतशान्तेः-परिसर्वतोभावेन संस्मृतं श्लाधितं प्रशंसितम् इति यावत्, परिसंस्मृतं स चासौ शान्तिः / शान्तिनाथस्य तथा / विस्फुरिते-विस्फुरणशीले / च-पुनः / शस्यतमेप्रशंसनीये / नाम्नि-अभिधाने / श्रते--सतीति शेषः / जनैः-शान्तिनाथस्य नामोच्चारणे विहिते राजादिभिश्च समाकणिते सतीतिभावः / अवनिपाल:-पृथिवीपतिरिति यावत् / दीनदयालुतयादीनेषु-दुविधेषुदरिद्रेष्विति यावत्, दयालुः कृपाशीलो दीनदयालुस्तस्य भावो दीनदयालुता, तया * * तथा / दमदान्ते- दम इन्द्रियनिग्रह श्वदान्तिस्तपः क्लेशसहिष्णुता दमदान्तिस्तस्यास्तथा, 'जातावेक वचनम्' यद्वा-दमस्येन्द्रियनिग्रहादेर्दान्तिः सहष्णुता दमदान्तिस्तस्यास्तथा / अमदाव-न मदो गर्वोऽमदो गर्वाभावस्तस्मात्तथा / दानम्-वितरणम् / अदात-अकरोत् / अथात्र-दानस्य दाधात्वर्थदाननिरूपितकर्मत्वाभावात् कथं दानमदात् “इति प्रयोग इति चेत-अत्रोच्यते रसाः प्रतीयन्ते" "ओदनं पचतीतिवदौपचारिकत्वात्, रसस्य ज्ञानरूपत्वाव तद्विषयकप्रतीतिर्न भवितुमर्हति इति प्रतीयन्ते इत्यस्य क्रियन्ते इत्यर्थस्तथा च-रसात्मकप्रतीतयः क्रियन्ते इति,यथा यथा वा तण्डुलाना पाकेनैव निष्पन्नस्य ओदनस्य पच्धात्वर्थनिरूपितकात्वाभावातपचतीत्यस्य निवर्तयतोत्यर्थस्तथात्रापि-अदादित्यस्य अकरोदित्यर्थकल्पने वाधाभावः / / 57 // शेवपदस्य पदव्यवबुद्धा, दुर्णयवर्णितिरेव निषिद्धा / रूपमदर्शि धृतोऽसि यदर्थ, चेतसि तत् त्वमिहासि स कर्ता // 5 //