________________ भीजननषधीयमहाकाव्ये श्रीशान्तिनावचरित्र कम्-आत्मानम् , जीवमात्रमिति यावत् / प्रति-लक्ष्यीकृत्य / कम्प्राणि-सकम्पानि दयावन्ति / मुखानिवदनानि / विधाय-कृत्वा / निरीक्षध्वम्-पश्यत / इतस्ततः-यत्र तत्र / वृथा-निरर्थकम् / किमुकिम् / व्यथं यत्तत्करणेनालमिति भावः / मविधेः-विधिविधानमनुष्ठानमिति यावत्, तेन सहितः सविधिस्तस्मात्तथा / बोधात-ज्ञानात् / ऋते-विना / शिवाश्रयः-आश्रयणमाश्रयः प्राप्तिरित्यर्थः / न-नैव / भवेदिति शेषः / बानक्रियाभ्यां मोक्ष इति वचनादिति // 54 // गुरोनिषेवाः श्रुतदानपूजना, जनाः ! कुरुध्वं स्वगुरूदिताध्वना / कथासु शिष्यध्वमिति प्रमील्य स-त्परम्परामार्गमचालयद् गणी // 55 // अन्वयः-जनाः !, स्वगुरुदितावना, गुरोः, निषेवाः, श्रुतदानपूजनाः, कुरुध्वम् , कथासु, शिष्यध्वम् , इति, प्रमील्य, गणी, सतपरम्परामार्गम् , अचालयत् // 55 // वृत्तिः--जनाः !-लोकाः ! भो भो भव्या इति यावत् / स्वगरुदिताध्वना-निजधर्माचार्योपदिष्टमार्गेण / परोः-आचार्यस्य, स्वधर्मोपदेशकस्येति यावत् / निषेवाः-सेवाः शुश्रूषा इति यावत् / श्रुतदानपूजना:-श्रुतं- श्रुतज्ञानम् , दानं सत्पात्रवितरणम् , पूजना-पूजा च श्रुतदानपूजनाः, :. तास्तथा / कुरुध्वम्- सम्पादयत / एवश्व-कथासु-धर्मवार्तासु / शिष्यध्वम्-विशिष्यध्वम् , कर्मकर्तरिप्रयोगः / ति-इत्येवंप्रकारेण / प्रमील्य-उपसर्गवशतः प्रबोध्येत्यर्थः / गणी-गणाध्यमः / सत्परम्परामार्गम्-समीचीनसम्प्रदायस्थितिम् / अचालयत्-प्रावर्तयत् // 55 // फलेग्रहिः शान्तिजिनोदितागमः, क्रमेण शाखाबहुलः स्फुरत्पदः / प्रमोदजन्यात् श्रवणेन विश्रुतः,स्रुतस्य सेकाद् बुबुधे नृपाश्रुणः // 56 // अन्वयः-श्रवणेन, विश्रुतः, क्रमेण, शाखाबहुलः, स्फुरत्पदः, फलेग्रहिः, शान्तिजिनोदितागमः, प्रमोदजन्यात् . सतस्य, नृपाश्रुणः, सेकान् , बुबुधे // 56 // वृत्तिः-श्रवगेन-श्रुत्या, मुनिना कृत्वेति वा। 'भवणोऽपि नन्दादिस्वादनः' इत्यभिधानस्वोपाटीकायां श्रमणपर्यायतया श्रवणशन्दस्यापि दर्शनाव / विश्रुतः-विशेषेण श्रुत आकर्णितः / प्रख्यातो वा / क्रमेणशा-क्रमशः / खाबहुला-शाखाभिः कल्पोपकल्पात्मकप्रभेदैर्बहुलो विशाल शाखाबहुल: विटपबहुलो वा / स्फुरत्पदा-स्फुरत्-विलसत् पदं शब्दो वाक्यं वा यस्मिन स तथा जाप्रन्मूलो