________________ 328 ] श्रीजननववीयमहाकाव्ये श्रीशान्तिनापचरित्र वृत्तिः--प्राक्शोकनिर्गमितनेत्रपयःप्रवाहान्--प्राक्-पूर्व, शोकेन-अज्ञानादिजनितखेदेन निर्गमिता-निःसारिता नेत्रपयः-प्रवाहा, नयनजलधारा यैस्ते प्राक्शोकनिर्गमितनेत्रपयःप्रवाहास्ताँस्तथा / लोकान्--जनान् , भव्यजनानिति यावत् / अनु-पश्चात् / अनेकावचनामृतलुप्तदुःखान्--अनेकानि बहूनि च तानि वचनानि वाक्यानि-अनेकवचनानि तान्यमृतानि सुधा इव अनेकवचनामृतानि तैलृप्तमदर्शनतां गतम् , विच्छिन्नमिति यावद् दुःखं प्रतिकूलतयावेदनीयं पोडादि येषान्ते, अनेकवचनामृतलुप्तदुःखास्ताँस्तथा / "प्रतिकूलवेदनीयं दुःख" मिति नैयायिकाः / कुर्वन-विदधत् / आप्तगणाधिराजः-आप्तो यथार्थवक्ता चासौ गणाधिराजो-गणेश्वर आप्तगणाधिराजः / सःप्रसिद्धः / सर्ववित्-सर्वज्ञः / तदा-तस्मिन् समये / उक्तिरसात-वचनमुक्तिस्तस्यास्तस्यां वा रसोऽमृतम्, उक्तिरसस्तस्मात्तथा / उाम्-पृथिव्याम् / सितद्युति:-सिता-शुभ्रा युतिः-कान्तियस्य स तथा / चन्द्र इत्यर्थस्तदिव-तद्वत् / रेजे-शुशुभे / / 6 / / पूर्व रथाङ्गभृति पञ्चमकेऽपि पश्चात् , रागेण वा भगवति स्मितपद्मिनाशे। चक्रे स चक्रनिभचक्रमणच्छलेन,स्वस्मिन् प्रभाकररुचिं शुचिमण्डलस्थः // 62 // अन्वयः-शुचिमण्डलस्था, सः, पूर्वम् , पञ्चमके, रथाङ्गभृति, पश्चात् , स्मितपद्मिनीशे, भगवति, अपि, रागेल, वा, स्वस्मिन् , चक्रनिभचक्रमणच्छलेन, प्रभाकररुचिम् , चक्रे // 62 // वृत्तिः-शुचिमण्डलस्थः-शुचि पवित्रं यन्मण्डलम्-श्रमणकदम्बकम् , शुचिमण्डलम् , तत्र तिष्ठतीति तथा / सः-गणेशः / पूर्वम्-प्रथमम् / पञ्चमके-पश्चानां पूरणः पञ्चमः, स एव पञ्चमकस्तिस्मिन् पञ्चमे इत्यर्थः / रथाङ्गभृति-रथाङ्ग-चक्रं बिभर्ति धारयतीति रथाङ्गभृत् तस्मिंस्तथा। चक्रिणीत्यर्थः / पञ्चमचक्रवर्तिनि भगवति शान्तिनाथ इति यावत् / पश्चात-अनन्तरम् / स्मितपमिनीशे-स्मितेनेषद्धासेन तन्मात्रेण पद्मिनीशः-सूर्यः स्मितपभिनीशस्तस्मिंस्तथा / भगवतिभगं श्रीज्ञानवैराग्यकीर्तिमाहात्म्यैश्वर्यादिकमस्त्यस्येति भगवान् तस्मिंस्तथा / केवलिनि भगवति शान्तिनाथे इति यावत् / अपि-सम्भावनायाम् / रागेण-अनुरागेण प्रीत्येति यावत् / वाउपमार्थकम् / स्वस्मिन्-आत्मनि / चक्रनिभचक्रमणच्छलेन-चक्रनिभं चक्रवाकतुल्यं यच्चंक्रमणं कुटिलगमनं चक्रनिभचक्रमणच्छलन्तेन तथा | प्रभाकररुचिम्-प्रभाकरस्य-सूर्यस्य रुचिः-कान्तिः प्रभाकररुचिस्तान्तथा / चक्रे-कृतवान् / सर्वत्र सार्वगणशासनमार्वभौम-पट्टस्थितस्य गणिनोऽनुदिनार्चनासु / सिदिर्भवेद भविजनस्य पुरःस्थितस्य, नीराजनां जनयतां निजबान्धवानाम्॥६३