________________ 320 ] बीननंषधीयमहाकाव्ये भीशान्तिनायचरित्र लभ्यते यदीत्यस्योत्तरवाक्यगतत्वात् / मे-मम / निषेवणात-शुश्रूषणात्, समाराधनादिति यावत् / त्वया-भवत्या / श्रिया-शोभया / 'शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीरिव कथ्यते' इति यादवः / यद्वात्वया अन्यया / त्वशब्दस्यान्यार्थकत्वादिति भावः / श्रियेत्यन्वेयम् / न-नहि / कदापि-कस्मिश्चित् कालेऽपि / विपत्स्यते-वियोन्यते / अतः-अस्माद्धेतोः / समेतशैलम्-समेतशिखराख्यतीर्थविशेषम् / चलितुम्-गन्तुम् / तम्प्रति गन्तुमिति यावत् / अथवा चलितुम्-इत्येव पाठः स्वीकरणीयः / तथा च "समेतशैलं प्रति चलितम्" इत्येवमन्वेयम् / पूर्वपश्शे “उद्यतम्" इत्यध्याहार्यम् / माम्-मल्लक्षणं तीर्थकृतम् / तु-पुनः / मा-नहि / भज-सेवस्व / मयि समेतशिखरं गतेऽपि मदीयसेवामाहात्म्यान्न त्वया कदापि शोभया वियोक्ष्यत इति भावः // 46 // विहाय सर्वामथ तीर्थकृच्छिय, विभुर्ययौ तगिरिशङ्गमुन्नतम् / तदाऽस्मि दैवेन हतोऽपि हा हतः, सुरेशितेति प्रलपन्नुपागमत् // 47 // अन्वयः-अथ, तीर्थकृत् , विभुः, सर्वाम् , श्रियम , विहाय, उन्नतम् , तगिरिशृङ्गम् , ययौ, तदा, सुरेशिता, हा, देवेन, हतः, अपि, हतः, अस्मि , इति प्रलपन् , उपागमत् // 47 // ___वृत्तिः--अथ-अनन्तरम् / तीर्थकृत्-जिनेश्वरः / विभुः-प्रभुः श्रीशान्तिनाथ इति यावत् / सर्वाम्-निखिलाम् / श्रियम्-लक्ष्मीम् / विहाय-सन्त्यज्य / उन्नतम्-अत्यन्तमूर्ध्वम् / तगिरिशङ्गमस प्रसिद्धश्चासौ गिरिः पर्वतः समेतशैल इत्यर्थस्तगिरिः, तस्य शृङ्ग शिखरम् , तगिरिशृङ्गम् तत्तथा / ययौ-गतवान् / तदा-तस्मिन् काले / सुरेशिता-सुराणां देवानामीशिता प्रभुः सुरेशिता, देवेन्द्रः / हा-खेदार्थकमव्ययम् / देवेन-विधिना / हतः-मारितः / अपि-समुच्चये / हतःमारितः / अस्मि-भवामि / इति-अनेन प्रकारेण / प्रलपन्-प्रलापं कुर्वन् / उपागमत्-समीपमागच्छत् // 47 // त्रयोदशाहे किल शुक्रजेऽसिते, जिनः प्रपन्नानशनः शिवं ययौ / अगुविनेया नवशत्यनुप्रभु, स्फुटं यतस्तेऽशिशवः परासवः // 48 // अन्वयः--जिनः, शुक्रजे, आसिते, त्रयोदशाहे, प्रपनानशनः, ( सन् ) शिवम् , ययौ, नवशती, विनेयाः, अनुप्रभु, अगुः, यतः, ते, स्फुटम् , अशिशवा, परासवः // 48 // वृत्तिः-जिन:-जिनेश्वरो, भगवाञ्छान्तिनाथः / शुक्रजे-शुक्रे ज्येष्ठे मासे जातः शुक्रज