________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वदिनोदिन्यां पञ्चमः सर्गः [ 319 दृश्यमानायास्तन्वाः / किरणैः-अंशुभिः / कृत्वेति विशेषः / तामसात-तमोऽन्धकारमेव तामसम् , वायसराक्षसादिवत , तस्मात्तथा / शून्यानि-विरहितानि / दिशाम्-ककुभाम् / दश-दशत्वसया विशिष्टानि / अपि-नूनम् / मुखानि-वदनानि / विलोकयिष्यसि-दृष्क्ष्यसि // 44 // ममैव शोकेन विदीर्णवक्षसा, मनः किमाकस्मिकमद्य नोद्यतम् / निवेदितुं सर्वविदे तदास्पदे, विडोजसाऽगामि भुवस्तलेऽअसा // 45 // अन्वयः- अध, विदीर्णवक्षसा, शोकेन, एव, मम, मनः, किम् , न, उद्यतम् , (इति) आकस्मिकम् , सर्वविदे, निवेदितुम् , विडोजसा, अञ्जसा,भुवस्तले, तदास्पदे, अगामि // 45 // / वृत्तिः-अद्य-अस्मिन्नहनि, * साम्प्रतिमिति भावः / विदीर्णवक्षसो-विदीर्ण-स्फुटितं, वक्षः उरः-हृदयमिति यावत् , येन स विदीर्णवक्षस्तेन तथा / शोकेन-खेदेन / एव-अप्यर्थकमव्ययमत्र / तादृशशोकेनापीत्यर्थः / मम-मल्लक्षणस्य / मनः-अन्तःकरणम् / किम्-कथम् / न-नहि / उद्यतम्सोधमं जातम् / विदीर्णवक्षः शोकेनापि मम मनः कथन्न तत्प्रतिकाराय समुद्यतमिति भावः (इति)। आकस्मिकम्-अकस्माज्जातं विषयमित्यर्थः / सर्व विदे-सर्वमखिलं वेत्ति जानाति इति सर्ववित् तस्मै तथा / सर्वज्ञाय भवपारगामिने भगवते शान्तिनाथायेति यावत् / निवेदितुम्-विज्ञापयितुम् / अत्रान्तर्भावितणिगर्थताऽवसेया / विडोजसा-देवेन्द्रेण / अञ्जसा-झटिति / भुवस्तले-भूमण्डले, मर्त्यलोके इति यावत् / तदास्पदे-तस्य-तीर्थकृत आस्पदं स्थानं तदास्पदम् , तस्मिंस्तथा / अगामि-अब्राज़ि, गतमिति यावत् // 45 // मयाऽद्य मुक्तिः प्रतिपत्स्यते श्रिया, त्वया विचित्राङ्गि ! विपत्स्यते यदि। निषेवणाद् मे न कदापि मामतः, समेतशैलं चलितुं तु मा भज // 46 // अन्वयः--विचित्राङ्गि !, यदि, मया, अद्य, मुक्तिः, प्रतिपत्स्यते, मे, निषेवणात् , त्वया, श्रिया, न, कदापि, विपत्स्यते, अत:, समेतशैलम् , चलितुम् , ( उद्यतम् ) ( चलितम् ) माम् , तु, मा, भज // 46 // वति:-विचित्राङ्गि!-विचित्रं विलक्षणमङ्ग स्वरूपं यस्यास्तदामन्त्रणे तथा / यदिचेत् / मया-मममणेन / अब-अधुना / मुक्ति:-निवृतिः / प्रतिपत्स्यते-प्राप्स्यते / तदेति स्वतो