________________ श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्र तवाश्रयादेव च शान्तिरप्यभूद्, भियां प्रदेशे जिन ! तत्तवालिके / वियोक्ष्यसेऽवल्लभयेति निर्गता-ऽक्षरालिरीत्याऽत्र कदाप्यटाटयते // 39 // अन्वयः--जिन !, तव, आश्रयात् , एव, च, प्रदेशे, भियाम् , अपि, शान्तिः, अभूत् , तत्, अत्र, तव, अलिके, अवल्लभया, ईत्या, वियोक्ष्यसे, इति, निर्गताक्षरालिः, कदापि, अटाटयते ? // 39 // वृत्तिः-जिन !--अर्हन् परमेश्वर ! तव-भवतः / आश्रयात-आश्रयणात् स्थितेरिति यावत्। एव--अवधारणार्थकमव्ययम् / भवदाश्रयेणैवेत्यर्थः / च--पुनः / प्रदेशे-भवदाश्रितप्रान्तभागे। सपादशतयोजनमितभूभाग इति यावत् / भियाम्--आतङ्कानाम् / भयानामिति यावत् / अपि--खलु / शान्तिः--शमनम् , व्यपगम इति यावत् / अभृत-अभवत् / तत्--तस्माद्धेतोः / अत्र--अस्मिन् / तब--.. भवतः / अलिके-भाले, ललाटे इति यावत् / अवल्लभया--अप्रियया / ईत्या--अतिवृष्ट्याद्युपद्रवैः / वियोक्ष्यसे-वियुक्तो भविष्यसि / इति-उक्तप्रकारा। निर्गताक्षरालिः--दुर्गताक्षरपंक्तिः / कदापि-- कस्मिंश्चिदपि काले इत्यर्थः / अटाटयते !--पुनःपुनरतिशयेन वाऽटति ! नैवेति भावः / यत्प्रभावात् क्षितौ भीतीनामपि क्षितिर्भवति तद्भाले ईत्यात्वं वियोक्ष्यसे इत्यक्षरपंक्तिरपार्थिकैवेति भावः // 39 // गुरुत्वभावात् शुचिशास्त्रसम्भवात्, सुरार्चितत्वादतिपुण्यभूभवात् / / अदीदिपत् तीर्थकृदित्यसौ विभो-लिपिर्ललाटन्तपनिष्ठुराक्षरा // 40 // अन्वयः-गुरुत्वभावाद् , शुचिशास्त्रसम्भवात् , सुरार्चितत्वात् , अतिपुण्यभूभवात् , असो, तीर्थकृत् , इति, विभोः, ललाटन्तपनिष्ठुराक्षरा, लिपिः, अदीदिपत् // 40 // ___ वृत्तिः-गुरुत्वभावात-गुरोर्महतो भावो गुरुत्वम् गरिमेति यावत् , स एव भावो गुरुत्वभावस्तस्मात्तथा / शुचिशास्त्रसम्भवात्-शुचि पवित्रं शास्त्रमागमादि तस्य सम्भव उत्पत्तिः शुचिशामसम्भवस्तस्मात्तथा / सुरार्चित्वात्-सुरैर्देवैरर्चितः पूजितः सुरार्चितस्तस्य भावः सुराचित्वम् तस्मात्तथा / अतिपुण्यभूभवात्-अतिपुण्या-अत्यन्तपवित्रा चासौ भूः पृथिवी स्थानं वा अतिपुण्यभूस्तत्र भवो जन्माऽतिपुण्यभूभवस्तस्मात्तथा / असो-अयम् / तीर्थकत-तीर्थङ्करः / इति-इतिहेतोः। विभोः-प्रभोः सकाशात् / ललाटन्तपनिष्ठुराक्षरा ललाटं-भालं तापयति सन्तापयतीति ललाटन्तपा (अतएव) निष्ठुराक्षरा कठिनवर्णा श्रवणावच्छेदेन दुःखोत्पादजनिकेति यावत् , ललाटन्तपनिष्ठुराक्षरा, कर्मधारयसमासः / पुंवद्भावश्च / लिपि:-वर्णसग्निवेशः / अदीदिपत्-चकास्ति स्म / जिनस्थितौ