________________ -बाचार्यविजयामृतसूरीश्वरकृतायां विद्विनोदिन्यां पञ्चमः सर्ग: [315 कथं विधातर्मयि पाणिपङ्कजाद, विधेर्जिनस्याशनपुण्यमुद्भवेत् / इतीव सौराष्ट्रिकभव्यचिन्तनैः, स्थितः प्रभुः श्रीविमलाचलोपरि // 37 // अन्वयः-विधातः !, पाणिपङ्कजात् , विधेः, जिनस्य, अशनपुण्यम् , मयि, कथम् , उद्भवेत् , इति, सौराष्ट्रिकभव्यचिन्तनैः, इव, प्रभुः, श्रीविमलाचलोपरि, स्थितः // 37 // वृत्तिः-विधात:-परमेष्ठिन् ! पाणिपङ्कजात-पाणिर्हस्तः, पङ्कजं-कमलमिवेति, पाणिपङ्कजम् , तस्मात्तथा / विधेः-विधानात् शुद्धक्रियात इति यावत् / जिनस्य-अर्हतः, तीर्थङ्करस्येति यावत् / अशनपुण्यम-अशनं भोजनम् , तस्य पुण्यं सुकृतं शुद्धाहार वितरणजनितं शुभमिति यावत् / मयिमल्लक्षणे जने इत्यर्थः / कथम्-केन प्रकारेण / उद्भवेत्-समुत्पद्येत / इति-इत्थम्भूतैः / सौराष्ट्रिकभव्यचिन्तन:-सौराष्ट्रे तदाख्यदेशे भवाः सौराष्ट्रिकास्तेषां भव्यचिन्तनानि रमणीयभावनाः, मनोरमविचारा इति यावत्, सौराष्ट्रिकभव्यचिन्तनानि तैस्तथा / इव-उत्प्रेक्षायाम् / प्रभुः-स्वामी / भगवान शान्तिनाथ इति यावत् / श्रीविमलाचलोपरि-विमलश्चासावचलः पर्वतो विमलाचलस्तस्य उपरि ऊर्ध्वभागे, तथा / श्रीसिद्धाचलोपरीति यावत् / स्थित:-अवस्थितः / न्यवसदिति यावत् // 37 // स्थितिक्रिया मासचतुष्टये प्रभो !, तव प्रिया शैत्यमृदुत्वशिल्पिनः / ऋतोर्जनस्यैव सुरैः समं भव-विति प्रचक्रे सफलामसौ गिरम् // 38 // अन्वयः-प्रभो !, शैत्यमृदुत्वशिल्पिनः, तव, ऋतोः, इव, मासचतुष्टये, सुरेः, समम् , प्रिया, स्थितिक्रिया, भवतु, इति, जनस्य, गिरम् , असौ, सफलाम् , प्रचक्रे // 38 // वृत्तिः-प्रभो !-स्वामिन् ! शैत्यमृदुत्वशिल्पिन:-शैत्यं-शीतलता च मृदुत्वं कोमलता च शैत्यमृदुत्वे तयोः शिल्पी सम्पादकः शैत्यमृदुत्वशिल्पी तस्य तथा अर्हतः कामक्रोधोपशामकत्वाच्छैस्यसम्पादकत्वं मानोपशामकत्वाच्च मृदुत्वसम्पादकत्वमवसेयम् / तव-श्रीमतो, भवतो भगवतः शान्तिनाथस् / ऋतोः-वर्षाकालस्य / इव-यथा / मासचतुष्टये-चत्वारोऽवयवा अस्येति चतुष्टयम् , मासानां चतुष्टयम् मासचतुष्टयम् तस्मिंस्तथा / सुरैः-देवैः / समम्-साधम् / प्रिया-अभीष्टा / स्थितिक्रिया-स्थितेरवस्थानस्य क्रिया-व्यापारः, स्थितिक्रिया अवस्थितिरिति यावत् / भवतु-जायताम् / इति-उक्तप्रकाराम् / जनस्य-लोकस्य, प्रजाया इति यावत् / गिरम्-वाणीम् / असौजिनः / सफलाम्-सार्थिकाम् , फलितामिति यावत् / प्रचक्रे-विदधे // 38 //