________________ 314 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे कचित् प्रभातप्रभया भयाहते, प्रमाद्यतो नीलमणित्विषा निशि / विलोकयन्त्या रुदतोऽथ पक्षिणः, स्त्रियाः क्षणोऽभूदुधृतलक्षलक्षणः // 35 // अन्वयः-अथ, क्वचित् , भयात् , ऋते, नीलमणिविषा, प्रभातप्रभया, प्रमाद्यत:, निशि, रुदतः, पक्षिणः, विलोकयन्त्याः, स्त्रियाः, क्षणः; हृतलक्षलक्षणः, अभूत् // 35 // त्तिः-अथ-अनन्तरम् / क्वचित-कुत्रापि / भयात-भीतेः / ऋते-विना / नीलमणिविषा-नीलवर्णो मणिः रत्नम् , नीलमणिः इन्द्रनीलस्तस्य स्विट् कान्तिरिव त्विट कान्तिर्यस्याः सा नीलमणि त्विट् , तया तथा। "उष्ट्रमुखादित्वात्" बहुब्रीहिः समास उपमानसरूपस्य पूर्वपदस्य लोपश्च / प्रभातप्रभया-प्रातःकालकान्त्या / प्रमाद्यतः-अनवदधतः, अनवधानं कुर्वत इत्यर्थः / रात्रिविषयकभ्रमवतः / निशि-रात्रौ / रुदतः-कूजतः, क्रन्दनमादधत इति यावत् / पक्षिणः-विहगान् / चक्रवाकाहीनित्यर्थः / विलोकयन्त्याः-अवलोकयन्त्याः / स्त्रिया:-नार्याः। क्षणः-समयः / हृतलक्षलक्षणःहृतानि विनष्टानि, दूरीकृतानि वा लक्षं लक्षणानि यस्मिन् स तथा / अनेकावश्यकविधेयविधानासामञ्जस्यापादकत्वेनातीवाल्पीयान इति यावत् / अभूत्-अभवत् // 35 / / न यावता भागवती लसन्नया, श्रुतास्ति गौस्तावदभीष्टता परे / चलाशु तस्याः श्रवणे विचक्षणः, प्रिये स कीदृग् भविता तव क्षणः // 36 // अन्धयः-हे पिये!, यावता, लसन्नया, भागवती, गौः, न श्रुता, अस्ति, तावत् , परे, अभीष्टता, आशु, चल, तस्याः, श्रवणे, विचक्षणः, सः, क्षणः, तव, कीदृक् , भविता // 36 // वृत्तिः—हे प्रिये !-अयि वल्लभे ! यावता-यावत्परिमितकालेन, यावत्कालपर्यन्तमित्यर्थः / लसनया-लसन शोभमानो नयो नीतिः शास्त्रीयसदुपदेशात्मकविषयो यत्र सा तथा / नयरमणीयेति यावत् / भागवती-भगवत्सम्बन्धिनी / गौः-देशनात्मकवाणी / न-नहि / श्रता-कर्णगोचरीकृता / अस्ति-वर्तते / तावत्-तदवधि / परे-परपदार्थे / अभीष्टता-रुचिः / चकास्तीति शेषः / आशुशीघ्रम् / चल-एहि / तस्या:-भगवत्सम्बन्धि देशनात्मकभारत्याः / श्रवणे-आकर्णने / विचक्षण:समीचीनः / सा-तादृशः, दर्शनसम्पादक इति यावत् / क्षणः-पूर्वप्रदर्शितकालः / कीदृक्-कीदृशः, किंविध इति यावत् / भविता-भविष्यति, अनिर्वचनीयस्तव समयस्तत्र भवितेति यावत् // 36 //