________________ पाचार्यविषयामृतसूरीश्वरकृतायां विद्विनोदिन्यां पञ्चमः सर्गः / [313 शोषितः-शोषणकर्मीकृतः / दूरीकृत इति यावत् / इति एवं प्रकारेण / मुदा-हर्षेण / स्तुते स्मअस्तुवीत // 32 // मदर्थसन्देशमृणालमन्थरः, कदाऽभ्युपेता पथिकोऽथ बान्धवः / .. इतीह पृष्टो गरुडोऽपि यक्षराट्, तदाऽऽचचक्षेऽस्य हितं ससाक्षिकः // 33 // अन्वयः-अथ, मदर्थसन्देशमृणालमन्थरः, पथिकः, बान्धवः, कदा, अभ्युपेता, इति, इह, पृष्टः, यक्षराट, गरुडः, अपि, तदा, ससाक्षिकः, (सन् ), अस्य, हितम्, आचचक्षे // 33 // वृत्ति:-अथ-अनन्तरम् / मदर्थसन्देशमृणालमन्थर:-अहम् अर्थः कारणं यस्यासौ मदर्थः, "त्वमौ प्रत्ययोत्तरपदे चैकस्मिन्" 2 / 1 / 11 // इत्यनेन मादेशः / स चासौ सन्देशोवाचिको, मदर्थसन्देशस्तस्मात् , मृणा-हिंसाचाऽऽलमसत्यश्च मृणाले मदर्थसन्देशमृणाले, तत्र मन्थरोऽलसस्तथा, हिंसातोऽसत्यतश्च निवृत्त इत्यर्थः / पथिक:-पान्थः, प्रवासीत्यर्थः / बान्धवः-स्वजनः / कदा-कस्मिन् समये / अभ्युपेता-अभ्युपेष्यति, अभ्यागमिष्यति इति यावत् / इति-एवंप्रकारेण / इह-अत्र / पृष्टः-अनुयुक्तः / यक्षराट-यक्षाधिपः / गरुडः-तन्नामविश्रुतः श्रीशान्तिनाथशासनाधिष्ठायकः / अपि-सम्भावनायामव्ययम् / तदा-तस्मिन् समये / ससाक्षिकःसाक्षी-साक्षाद्र्ष्टा एव साक्षिकस्तेन सहितस्तथा / (सन्निति शेषः)। अस्य-प्रष्टुर्जनस्येत्यर्थः / हितम्शुभम / आचचक्षे–कथयामास // 33 // मयाऽनुपृष्टो भगवद्विवन्दिषुः, प्रियः कियद्दूर इति त्वयोदिते / विलम्बतेऽसाविति सा पराङ्मुखी, सखी सखीं तां निजगाद नाऽदरात् // 34 // - अन्वयः-भगवद्विवन्दिषुः, प्रियः, कियद्रे, इति, मया, अनुपृष्टः, त्वया, असो, विलम्बते, इति, उदिते, पराकमुखी, सा, सखी, ताम् , सखीम् , नादरात् , निजगाद // 34 // वृत्तिः-भगवद्विवन्दिषुः-अर्हन्तं श्रीशान्तिनाथं निनंसुः / प्रियः-वल्लभः / कियददरेकियद्विप्रकृष्टे / कियान विलम्बः इति यावत् / इति एवं प्रकारेण / मया-लक्ष्मीस्वरूपया कयाचिन्नायिकया / अनुपृष्टः-अनुयुक्तः / त्वया-अन्यया / त्वशब्दोऽन्यार्थकः / असौ-स तव वल्लभः / विलम्बते-विलम्बं करोति, कालमतिवाहयति इत्यर्थः / इति-अनेन प्रकारेण / उदिते-कथिते सतीति शेषः / पराङमुखी-विमुखो / सा-लक्ष्मीस्वरूपा / सखी-वयस्या / ताम्-पूर्वोक्ताम् / सखीम्आलीम् / नादरात-अनादराव / निजगाद-आचचक्षे, कथितवतीति यावत् // 34 // ..