________________ 312 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे कुशासनेनापि कुशासनेन ये, नयेऽनुरक्ता बहुविप्रयोगतः। निवृतिमेष्यन्ति परं दुरुत्तर-स्तरस्विभिर्मोहमहोदधिस्तु तैः // 31 // अन्वयः- कुशासनेन, ये, कुशासनेन, अपि, नये, अनुरक्ताः, बहुविप्रयोगतः, निवृत्तिम्, एष्यन्ति, तु, परम् , मोहमहोदधिः, तरस्विभिः, तैः, दुरुत्तरः // 31 // वृत्तिः-कुशासनेन-कुशानां दर्भाणामासनं विष्टरः कुशासनम्, दर्भमयविष्टर इत्यर्थः, तेन तथा उपलक्षिता इति शेषः / कुशासनशालिन इति यावत् / ये-यादृशा जनाः / कुशासनेनकुत्सितं शासनम् प्रवचनम् कुशासनम् तेन तथा / अपि-सम्भावनायामव्ययम् / नये-नयमार्गे / शास्र, नीतौ वा / अनुरक्ताः-अनुरागिणः / कदाचित् इति शेषः / बहुविप्रयोगतः-अतिवियोगतः। . बहूनां विप्राणां योगतो वा / निवृत्तिम्-वैराग्यम् / ऐष्यन्ति-लप्स्यन्ते / तु-किन्तुं / परमकेवलम् / मोहमहोदधिः-महान् विशालश्चासावुदधिः समुद्रः, महोदधिः, मोहोऽज्ञानं महोदधिरिवेति मोहमहोदधिः उपमेयं व्याघ्राद्यैः साम्यानुक्तौ” 3 / 11 102 / इत्यनेनोपमितसमासः / तरस्विभिः वेगवद्भिः / तै:-तादृशैः जनैरिति शेषः / दुरुत्तर:-दुःखेनोत्तरितुं पारयितुं योग्यो दुरुत्तरः अस्तीति शेषः // 31 // जिनस्य वप्रत्रितयाग्रनिष्ठया, जनोऽत्र निर्वाणिकया हृतेऽशिवे / इति स्तुते स्मातिमुदेष शोषित--स्त्वयैव मातः सुतशोकसागरः // 32 // अन्वयः—अत्र, जिनस्य, वप्रत्रितयाग्रनिष्ठया, निर्वाणिकया, अशिवे, हृते, एषः, जनः, (हे) माता, त्वया, एव, सुतशोकसागरः, शोषितः, इति, मुदा, स्तुते, स्म // 32 // वृत्तिः अत्र-अस्मिल्लोके / जिनस्य प्रभोः श्रीशान्थिनाथस्य / वप्रत्रितयाग्रनिष्ठयावप्राणां प्राकारपीठभुवाम् , त्रयम् , वप्रत्रयम् तस्य अग्रे निष्ठा स्थितिर्यस्याः सा वप्रत्रितयाग्रनिष्ठा तया तथा / 'वप्रोऽस्य पीठभूः' 4-46 / इत्यभि० चि० / निर्वाणिकया-देव्या / तन्नाम्न्या श्रीशान्तिनाथशासनधिष्ठात्र्या / अशिवे-अमङ्गले / हृते-अपनीते, विनाशिते इति यावत् / एषःसमीपतरवर्तितया दृश्यमान इत्यर्थः / 'समीपतरवर्ति चैतदो रूपम्" इत्यभियुक्तोक्तेः / जनः-लोकः / है' मातः!-हे जननि ! त्वया-भवत्या / एव-अवधारणार्थकमव्ययम् / सुतशोकसागर:शोकः खेदः, सागरः-समुद्र इवेति शोकसागरः, सुतस्य पुत्रस्य शोकसागरः सुतशोकसागरः /