________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां पञ्चमः सर्गः [ 311 मुहूर्तमात्रं भवनिन्दया दया-दरेण संसाध्य धियाऽऽर्हतं मतम् / शुभ लभन्ते भविनो विनोदतः, क्षणेन मुक्त्यम्बुजलोचनायुजः // 29 // अन्वयः-दयादरेण, मुहूर्तमात्रम् , भवनिन्दया, धिया, आहतम् , मतम् , संसाध्य, क्षणेन, मुक्त्यम्बुजलोचनायुजः, भविनः, विनोदतः, शुभम् , लभन्ते / / 29 // वृत्तिः-दयादरेण-दयायां निरुपाधिपरदुःखापहरणेच्छायामादर आवेशो दयादरम्तेन तथा / मुहूर्तमात्रम्-घटिकाद्वयात्मककालमात्रम / भवनिन्दया-भवस्य ससारस्य जन्मनो वा निन्दा भवनिन्दा, तया तथा ! धिया-बुद्धया / आर्हतम्-अर्हतो जिनेश्वरस्येदम् आर्हतम् , जिनेश्वरप्ररूपितमित्यर्थः / मतम्-सिद्धान्तम् / संसाध्य-सम्यक् साधयित्वा / क्षणेन-पश्चदशलेशात्मककालविशेषेण स्वल्पेनैव कालेनेति यावत् / भविनः-भव्यात्मानः। मुक्त्यम्बुजलोचनायुज:-अम्बुजे-कमले इव लोचने नयने यस्याः साऽम्बुजलोचना, मुक्तिनिवृतिरम्बुजलोचनेवेति मुक्त्यम्बुजलोचना तया युज्जन्ति संयुज्यन्ते इति तथा / विनोद तः-आनन्दतः / शुभम्-कल्याणम् / लभन्ते-प्राप्नुवन्ति // 29 // स्त्रियः श्रियो वा विरहामहा महा-सखाः सखायः स्रवदश्रवो मम / इति प्रियालीनमलीनमानसा, न सातभाजोऽत्र परत्र देहिनः // 30 // अन्वयः-स्त्रियः, वा, श्रियः, विरहासहाः, महासखायः, मम, सखायः, स्रवदश्रवः, .. इति, प्रियालीनमलीनमानसाः, देहिनः, अत्र, परत्र, न, सातभाजः // 30 // वृत्तिः-स्त्रिय:-स्त्रियाः, ना- इत्यर्थः, नितम्बिन्या इति यावत् / वा-समुच्चये / श्रियः-लक्ष्म्याः / विरहासहा:-वियोगं सोढुमसमर्था इत्यर्थः / महासखायः-महान्तः सखायो मित्राणि येषान्ते तथा, सखिशब्दान्ततत्पुरुषादट्प्रत्ययः समासान्तः अपीति शेषः / मम-ममेति ममत्वमित्राणि, ममताभाज इति यावत् / जना इति शेषः / स्रवदश्रवः-स्रवन्ति निर्गलन्त्यश्रूणि नेत्रजलानि येषान्ते तथा / इति-अनेन प्रकारेण अस्माद्धेतोवा / प्रियालीनमलीनमानसाःप्रियायां रमण्यां लीनमासक्तम् ( अत एव ) मलीनं-मलीमसं मानसमन्तःकरणं येषान्ते तथा / देहिनः-देहः शरीरमस्त्येषामिति देहिनः प्राणिनः, जीवा इत्यर्थः / अत्र-इह लोके / मर्त्यलोकेऽस्मिनित्यर्थः / परत्र-परलोके / अपीति शेषः / न-नहि / सातभाज:-सातं सौख्यं भजन्ते, सेवन्ते इति सातभाजः, सुखभागिन इति यावत् / भवन्तीति शेषः // 30 //