________________ 310 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे मुनेर्गृहस्थस्य च वाऽर्हदागमः, फलानि दत्ते त्रिदिवं शिवं ध्रुवम् / गतिस्तयोरेष जनस्तमर्दयन्, रसेन हीनो भविता घनातपात् // 27 // अन्वयः-- अहंदागमः, मुनेः, च, गृहस्थस्य, वा. ध्रुवम् , त्रिदिवम् , शिवम् , फलानि, दत्ते, तयोः, गतिः, एषः, तम् , अर्दयन् , जनः, घनातपात् , रसेन, हीन:, भविता // 27 // वृत्तिः-अबदागमः-अहतो जिनेश्वरस्य आगमः आगमनम , सिद्धान्तः शास्त्रं वा तथा / मुनेः-श्रमणस्य / च-एनः / गृहस्थस्य-संसारिणो जनस्य / वा-अथवा / यद्वा-वाशब्दोऽत्रोपमार्थकः, तथा च मुनेरिव गृहस्थस्यापीत्यर्थः / ध्रुवम्-निश्चितं यथास्यात्तथा / त्रिदिवम्-स्वर्गम् / शिवम-मोक्षम् / विनापि चकारेण समुच्चयार्थप्रतीतिनियमात् स्वर्ग माझञ्चेत्यर्थः प्रतीयते / फलानिप्रयोजनानि, लाभान् वा / दत्ते-प्रतिपादयति / तयोः-मुनिगृहस्थयोः। गतिः-अभ्युपायः / एषःअहंदागमः / विज्ञेय इति शेषः / तम्-अर्हदागमम् / अर्दयन्-त्रोटयन् / भिन्दन्निति यावत् / जनः-लोकः / घनातपात-घनः सान्द्रश्वासावातपः / सन्तापो घनातपस्तस्मात्तथा / रसेन-अनुरागेण / वीर्येण वा / हीनः-रहितः / भविता-भविष्यति निर्वीर्यो भावीति यावत् // 27 // अहर्निशं सान्तपनक्रियाविधौ, प्रवृत्तिभाग् जैनरुचिं विना जनः। अधः पतेद् दुःखममुष्य बिभ्रत-महो विधे ! त्वां करुणा रुणद्धि न // 28 // अन्वयः-जनरुचिम् , विना, जनः, अहर्निशम् , सान्तपनक्रियाविधौ, प्रवृत्तिभाक् , (अपि) अधः, पतेत् , विधे !, अमुष्य, दुःखम् , बिभ्रतम् , त्वाम् , करुणा, न, रुणद्धि, अहो ! // 28 // वृत्तिः-जैनरुचिम्-जिनस्याहतोऽयं जैनः, जिनधर्म इत्यर्थः, तत्र रुचिरभिलाषो जैनरुचिस्तान्तथा / सम्यग्दर्शनमिति यावत् / विना-अन्तरेण / जनः-लोकः / अहर्निशम्-रात्रिन्दिवम् / सान्तपनक्रियाविधौ-सान्तपनमत्यन्तकायक्लेशानशनादिकमेव क्रिया व्यापारः, सान्तपनक्रिया तस्या विधिविधानम् , सम्पादनमिति यावत् , सान्तपनक्रियाविधिस्तस्मिंस्तथा / प्रवृत्तिभाक-प्रवृत्तिमभ्यासातिशयं भजते प्राप्नोतीति तथा / (अपि) अधःपतेत्-पातालं गच्छेत् , नरकं व्रजेदिति यावत् / (हे) विधे !-विधातः ! क्रियाविधे वा / अमुष्य-तादृक्रिया तत्परस्यैतस्य जनस्येत्यर्थः / दुःखम्पीडाम् / विभ्रतम्-धारयन्तम् ददतमिति यावत् / त्वाम्-भवन्तम् / करुणा-कृपा / न-नहि / रुणद्धि-प्रतिबध्नाति / किमिति शेषः / कथन्न रुणद्धीति यावत् / अहो-आश्चर्ये // 28 //