________________ -आचार्य विजयामृतसूरीश्वरकृतायां विद्विनोदिन्यां पञ्चमः सर्गः / [317 समेषां जनानां सुखभागित्वाल्ललाटन्तपनिष्ठुराक्षरापि लिपियर्थीभूय शोभना सती दिदीप इति भावः // 40 // अयि स्वयूथ्यैरशनिक्षतोपमं, समं विषेहेऽप्युपसर्गकारणम् / सुरैर्नरैर्वा पशुभिः सहासुरैः, कृतं त्वमीषां विकृतं न मानसम् // 41 // अन्वयः-अयि !, स्वयूथ्य, समम् , असुरैः, सह, सुरैः, नरः, पशुभिः, वा, कृतम् , अशनिक्षतोपमम् , अपि, उपसर्गकारणम् , विषेहे, तु, अमीषाम् , मानसम् , न, विकृतम् // 41 // वृत्तिः-अयि !-कोमलामन्त्रणे ! स्वयूथ्यै:-यूथभवैः / समम्-साकम् / असुरैःभवनपत्यादिनिर्जरैः / सह-सार्धम् / सुरैः-वैमानिकदेवैः / नरैः-मनुजैः / पशुभिः-तिर्यग्भिः / वा-समुच्चये / कृतम्-जनितम् / अशनिक्षतोपमम्-वज्राघाततुल्यम् / अपि-खलु / उपसर्गकारणम्-उपद्रवहेतुम् / उपसर्गानिति यावत् / विषेहे-असहत / तु-किन्तु / अमीषाम्-भगवताम् श्रीशान्तिनाथ जिनेश्वराणाम् / 'गुरावेकश्च' 2-2-124 / इति गौरवातिशयमभिव्यञ्जयितुं बहुत्वम् / मानसम्-अन्तःकरणम् / हृदयमिति यावत् / न-नैव / विकृतम्-विकारसंवलितम् / चलितमिति यावत् // 41 // भुवं पुनानस्य तवेति निर्गल-न्ममाद्य वृत्तान्तमिमं बतोदिता / तनोति संसद् दिवि गायनैः प्रभो!, पुरन्दरस्यापि पुरो महोदयम् // 42 // अन्वयः--निर्गलन्मम !, प्रभो !, भुवम् , पुनानस्य, तव, इति, इमम् , वृत्तान्तम् , दिवि, पुरन्दरस्य, पुरः, गायनैः उदिता, संसत् , अध, अपि, महोदयम् , तनोति, बत, // 42 // वृत्तिः-निर्गलन्मम !-निर्गलत्-दूरं व्यपगच्छत् मम-ममत्वं यस्मात्तदामन्त्रणे तथा / प्रभो-स्वामिन् !, भगवच्छान्तिनाथेति यावत् / भुवम्-पृथिवीम् , भूलोकमिति यावत् / पुनानस्यपवित्रयतः, पवित्रीकुर्वत इति यावम् / तव-भवतः , शान्तिनाथस्य / इति-पूर्वोदीरितिप्रकारेण / इमम्-एतम् / वृत्तान्तम्-वार्ताम् / दिवि-स्वर्गे / पुरन्दरस्य-इन्द्रस्य / पुरः-पुरतः / गायनैःगायकैः, हाहा-हूहूप्रमुखैर्गन्धवैरिति यावत् / उदिता-निवेदिता गीतेति यावत् / संसत-सभा। अद्य अपि-अद्यावधि / महोदयम-महानतिशयितश्वासावुदयोऽभ्युदयो महोदयस्तन्तथा / तनोतिविस्तारयति / बत-हर्षे // 42 //