________________ -आचार्य विजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां पञ्चमः सर्गः / [ 307 वृत्तिः--गणेश्वरैः-गणाधीशैःषट्त्रिंशद्गणधरैरिति यावत् / इति-अनेन प्रकारेण / ईदृशैः-इमानीव दृश्यन्ते इतीदृशानि तैस्तथा / वाङ्मयैः-वाच एव वाङ्मयानि तैस्तथा, वचनकदम्बकैरिति यावत् / द्वादशाङ्गोरूपवाग्वैभवैरिति / तम्-प्रसिद्धम् / पूर्वगणम्-चतुर्दशपूर्वसमुदयम् / विरचय्य-विशेषेण रचयित्वा, निर्मायेत्यर्थः / अष्टशतीमित:-अष्टशत्या मितः परिच्छिन्नस्तथा / मुमुक्षुवर्ग:-मोक्तुमिच्छतीति मुमुक्षति, मुमुक्षतीति मुमुक्षुस्तस्य वर्गः समूहस्तथा मुनिपरिकर इति यावत् / पटूकृतः-अपटुरविद्वान् विद्वान सम्पद्यते तथा कृतः पटूकृतः, पण्डितीकृत इत्यर्थः / स्थितः-अतिष्ठत् / यः-यादृशो गणः / स्वयम्-आत्मना / अर्हता-जिनेश्वरेण / तपोभरे-तपस्याऽऽधिक्ये / ईरितः-प्ररितः / भगवतः श्रीशान्तिनाथस्य चतुर्दशपूर्विणां मुनीनामष्टशती व्यलसदिति // 21 // द्विलक्षयुक्ता नवतिः सहस्रकाः, सचित्रवैलक्ष्यकृपं नृपं खगः / समां गतो वाऽणुयतिः प्रतिष्ठित-श्चकार वाचा परमार्हत बहुम् // 22 // अन्वयः-विलक्षयुक्ताः, नवतिः, सहस्रकाः, (श्रावकाः) अणुयतिः, प्रतिष्ठितः, क्षमांगतः, खगः, वा, बहुम् , परमार्हतम् , नृपम् , वाचा, सचित्रवैलक्ष्यकृपम् , चकार // 22 // वृत्तिः-द्विलक्षयुक्ताः-लमद्वयविशिष्टाः / नवतिः सहस्रका:-नवतिसहस्राणि। अत्र सहस्राण्येव सहस्रकाः स्वार्थे कः / 'प्रकृतेर्लिङ्गवचने बाधन्ते स्वार्थिकाः क्वचित्' इति (लिङ्गा-१३५) वचनात्, 'क्वचित् स्वार्थिका अपि प्रत्ययाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति भाष्योक्तेश्चात्र पुंस्त्वमनुसन्धेयमिति / (श्रावकाः-देशव्रतधारिणः / भगवतः शान्तिनाथस्य नवतिसहस्राधिकद्विलक्षमिता ये आसँस्ते / अत्र यथास्थितमुद्रितपाठखिलक्षयुक्ता इति वर्तते परं सोऽपपाठः, यत् शान्तिनाथ चरित्रे 'श्रीशान्तिजिननाथेन बोधितानामगारिणाम् , नवतिसहस्रायुक्ता जाता लक्षद्वयीवरा' 1530 / इति / ) अणुयतिः-अणुव्रतधारकः / प्रतिष्ठितः-लब्धप्रतिष्ठः / क्षमांगतः-भूतलमागतः / खगःखेचरः, विद्याधर इति यावत् / वा-समुच्चये / बहुम्-सातिशयम् / परमार्हतम्-प्रवरजैनम् / नृपम्-राजानम् / वाचा-बागविलासेन / सचित्रवैलक्ष्यकपम्-चित्रमाश्चर्यं च वैलक्ष्यं लज्जा च कृपा कारुण्यं च ताभिः सह वर्त्तते तं तथा, विस्मयवलक्ष्यदयान्वितमिति यावत् / चकारकृतवान् / / 22 / / उपासिकानां निवहस्त्रिलक्षभृत् , पुनः सहस्रत्रिनवत्यधिष्ठितः / दयासमुद्रे स तदाशये ऽतिथी-बभूव रत्नाकर एव केवलः // 23 //