________________ 308 ] भीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे अन्वयः-त्रिलक्षभृत् , पुनः, सहस्रत्रिनवत्यधिष्ठितः, केवलः, सः, उपासिकानाम् , निवहः, दयासमुद्रे, रत्नाकरे, एव, तदाशये, अतिथीबभूव / / 23 / / वृत्तिः-विलक्षभूत-त्रिलक्ष लक्षत्रयसङ्ख्याम , बिभर्ति धारयतीति त्रिलक्षभृत् / पुनः-किश्च / सहस्रत्रिनवत्यधिष्ठित:-सहस्राणां त्रिनवतिः सहस्रत्रिसवतिस्तया अधिष्ठितो युक्तस्तथा। त्रिनवति सहस्राश्चितः / केवल:-अद्वितीयः / सः-प्रसिद्धः / उपासिकानाम्-श्राविकाणाम् / निवहः-समूहः / दयासमुद्रे-करुणावरुणालये, कृपासागरे इति यावत् / रत्नाकरे-रत्नानां नानदर्शनचारित्रेति रत्नत्रयाणाम आकरः खनिरिव रत्नाकरस्तस्मिंस्तथा / एव-अवधारणार्थकमव्ययम् / तदाशये-तस्य भगवत आशयोऽन्तःकरणं चित्तमिति यावत्, तदाशयस्तस्मिंस्तथा / अतिथीवभूव-अनतिथिरप्राघुणिकोऽतिथिः सम्पद्यते तथा बभूव तथा, प्राघुणिकीबभूवेत्यर्थः // 23 // प्रभुर्विजहे भुवि यत्र केवली, बलीयसो मोहगिरीन विभेदयन् / रसैः प्रसन्ने जनमानसे सखी-चकार कारुण्यरसापगा गिरः // 24 // अन्वयः--बलीयसः, मोहगिरीन, विभेदयन् , केवली, प्रभुः, यत्र, भुवि, विजहे, (तत्र) रसै:, प्रसन्ने, जनमानसे, कारुण्यरसापगाः, गिरः, सखीचकार // 24 // वृत्तिः–बलीयसः-अतिशयेन बलवन्तो बलीरांसस्तांस्तथा, "गुणाङ्गाद्वेष्ठेयसूः" 7 / 3 / 6 // इत्यनेनेयसूः प्रत्ययः, "विन्मतोर्णेष्ठेयसौ लुप्" 7 / 4 / 32 // इत्यनेन मतो लुम् / मोहगिरीन्मोहा अज्ञानानि, गिरयः पर्वता इव मोहगिरयस्ताँस्तथा, पर्वतवद्गुरुतममोहानित्यर्थः / विमेदयन्प्रविदारयन् / केवली-केवलं तदाख्यज्ञानविशेषोऽस्त्यस्येति केवली, "अतोऽनेकस्वरात्" 7 / 2 / 6 / / इत्यनेन 'इन्' प्रत्ययः / केवलज्ञानवानित्यर्थः / प्रभुः-स्वामी, भगवान् शान्तिनाथ इति यावत् / यत्र-यस्याम् / भुवि-पृथिव्याम् / यस्मिन् स्थाने इति यावत् / विजहे-विहृतवान् , विहारं कृतवानिति यावत् / (तत्र) रसैः-अनुरागैः / प्रसन्ने-हृष्टे / जनमानसे-लोकान्तःकरणे / कारुण्यरसापगाःकरुण एव कारुण्यम् तल्लक्षणो रसः कारुण्यरसस्तस्य आपगा नद्यः, कारुण्यरसापगास्तास्तथा / गिरः-वाचः / सखीचकार-असख्यः सख्यः सम्पद्यन्ते तथा चकार तथा, मित्रीचकार // 24 // मदेकपुत्रा जननी जरातुरा, पिता सनत्पूर्व कुमारताविषम् / पुरो गतौ स्वस्य निनंसयाऽऽगतौ,विमोच्य मोहात् स हि तावबूबुधत् // 25 //