________________ 306 ] . श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्र अपि, दण्डधारिणा, त्वया, अद्भुता, त्रिलोकीप्रभुता, करे, कृता // 19 // वृत्तिः-रजोबले-रजोगुण एव बलं सैन्यम् , रजोबलम् , तत्र तथा / रजता-अनुरज्यता / विमोहराजा-विशिष्टो मोहोऽज्ञानम् , विमोहः स एव राजते इति राट् विमोहराट् तेन तथा / विमोहरूपेण नृपेणेत्यर्थः / जगत्रयम्-भुवनत्रयम् , त्रिभुवनमिति यावत् / दण्डितम्-शिक्षितम् / (अथ च) आत्मसात्कृतम्-आत्माधीनं सम्पद्यते तत्कृतम् , आत्मसात्कृतम् / अद्य-लक्षणया अद्यत्वे अधुनेति यावत् / तस्मिन-विमोहराजि / अपि-सम्भावनायाम् / दण्डधारिणा-दण्ड शिक्षा धरति तच्छीलो दण्डधारी तेन तथा / त्वया-भवता, भगवता शान्तिनाथेन / अद्भुता-आश्चर्यकारिणी / त्रिलोकीप्रभुता-त्रयाणां लोकानां समाहारत्रिलोकी तत्र प्रभुता स्वामित्वमीशित्वमिति यावद तथा। करे-हस्ते / कृता-विहिता। त्रिभुवनविजयशालिनमपि विमोहराजमजीजयदिति भावः // 19 // .. प्रणूयमानस्त्रिसहस्रयोगिनां, गणोऽवधिज्ञानवतां सुरैरिति / विभूषिताऽद्यापि च येन संस्मर-त्कथं न पत्या धरणी हृणीयते // 20 // अन्वयः-च, अवधिज्ञानवताम् , त्रिसहस्रयोगिनाम् , गणः, सुरैः, प्रणयमानः, (अभूत् ) इति, येन, पत्या, विभूषिता, धरणी, अद्यापि, संस्मरत्कथम्, न, हृणीयते // 20 // वृत्तिः--च-पुनः / अवधिज्ञानवताम्-अवधिज्ञानमस्त्येषामिति, अबधिज्ञानवन्तस्तेषां तथा / त्रिसहस्त्रयोगिनाम-त्रिसहस्रं सहस्रत्रयं योगिनो मुनयस्त्रिसहस्रयोगिनस्तेषां तथा। गणः-समुदयः। सुरैःदेवैः / प्रणयमानः-प्रकर्षण स्तूयमानः / अभूदितिशेषः / इति-हेतोः / येन-यादृशेन गणेन / पत्यास्वामिना / विभूषिता-समलकृता / धरणी-पृथिवी / अद्यापि-अद्यत्वेऽपि, अधुनापीति वा / संस्मकरत्कथम्-सं सम्यकप्रकारेण स्मरन्ती स्मरणविषयीभूता कथा चरित्रम् यस्मिन् , तद्यथा स्यात्तथा / न-नहि / हुणीयते-लज्जते / श्रीशान्तिनाथस्य गवतस्त्रिसहस्रमिता अवधिज्ञानिन आसन्निति भावः // 50 // इतीदृशैस्तं विरचय्य वाङ्मयै-गणेश्वरैः पूर्वगणं पट्टकृतः / मुमुक्षुवोऽष्टशतीमितः स्थित-स्तपोभरे यः स्वयमहंतेरितः // 21 // अन्वयः-गणेश्वरः, इति, ईदृशैः, वाङ्मयः, तम् , पूर्वमणम् , विरचय्य, अष्टशतीमितः, मुमुक्षुवर्गः, पकृतः, स्थितः, यः, स्वयम् , अर्हता, तपोभरे, रितः // 21 //