________________ -आचार्य विजयामृतसूरीश्वरकृत्तायां विद्वद्विनोदिन्यां पञ्चमः सर्गः [ 305 वृत्तिः-तथा-समुच्चये / वारिभूरुहा-वारि जलमेव भूरुत्पत्तिस्थानम् , वारिभूस्तत्र रोहत्युत्पद्यते तेन तथा, जलोत्पन्नेनेति यावत् / फलेन-प्रसवेन / च-पुनः / मूलेन-कन्देन / (जीवताम्जीवनं धारयताम् ) परेपाम्-अन्येषाम् , विहगादीनाम् / (उपरीति शेषः) अनुकम्पया-दयया / अन्विताः-विशिष्टाः / चतुःशताव्यत्रिसहस्रवादिनः-चतुःशताधिकत्रिसहस्रं सङ्ख्यका वादकरणशीलाः मुनयः / अत्र 'चतुःशताट्यद्विसहस्रवादिनः' इति पाठेन भाव्यम् / यतो हि शान्तिनाथस्याहतो वादिना मुनीनां सङ्ख्या शतानां चतुर्विशतिरभूत् / यदुक्तं शान्तिनाथचरित्रे 'चतुःशताधिके' द्वैतु सहस्रे वादिनां तथा' 6-1536 इति / चतुःसहस्राः-चत्वारि सहस्राणि संख्या ते तथा / मनस:-अन्तःकरणस्य / अवबोधिनः-ज्ञातारः / मनःपर्यावज्ञानशालिनः / मुनय आसन्निति शेषः / / 17 / / शतत्रयायुक्तचतुःसहस्रिका, मुनेरिवेत्थं ममयस्य-वृत्तयः / अभुः प्रभोः केवलबोधशालिनो, दिशां प्रकाशादहिमांशुमालिनः // 18 // अन्वयः-दिशाम् , प्रकाशात् , अहिमांशुमालिनः, इव, केवलबोधशालिना, ममयस्य, प्रभो, मुनेः, इत्थम् , शतत्रयीयुक्तचतुःसहस्रिकाः, वृत्तयः, अभुः // 18 // वृत्तिः--दिशाम्-आशानाम् / प्रकाशात्-प्रकाशनात् / अहिमांशुमालिन:-हिमाः-शीतलाश्व ते-अंशवः किरणानि हिमांशवः न हिमांशवोऽहिमांशवः, तेषां माला-पक्तिरहिमांशुमाला साऽस्त्यस्येति-अहिमांशुमाली-सूर्यस्तस्य तथा / सूर्यरूपस्येत्यर्थः / यथा सूर्यस्य दिप्रकाशकत्वं तथा केवलिनः दिमितधर्माकाशकालपुद्गलजीवत्मकद्रव्यप्रकाशकत्वमिति / इव-यथा / केवलबोधशालिन:केवलबोधेन-केवलज्ञानेन शालते शोभते तच्छील: केवलबोधशाली, तस्य तथा / ममयस्य-मः शम्भुस्तीर्थकरः स प्रधानं यस्मिन् स ममयस्तस्य तथा, जिनमयस्येति यावत् / 'मः पुनः शम्भा' वित्यनेकार्थः / प्रभोः-श्रीशान्तिनाथस्याहतः / मुनेः-श्रमणस्य जातावेकवचनम् / इत्थम्-अनेन प्रकारेण / शतत्रयीयुक्तचतुःसहस्रिका:-शतत्रयाधिकचतुःसहस्र "43000" परिमिताः। वृत्तयः-स्थितयः, सङ्ख्या इति यावत् / अभुः-अदीप्यन्त / यद्वा ममयस्यवृत्तय ‘इत्येकमेव समस्तं पदमवसेयम् / मम-ममत्वं यस्यन्ति क्षिपन्तीति ममयस्यास्ताश्च ता वृत्तयो ममयस्यवृत्तयः इत्येवंश्यप्रत्ययान्तममयस्यापदवृत्तिपदयोः कर्मधारयसमासाश्रयणेन पुंवद्भावादभीष्टसिद्धिसम्भवादिति // 18 / / जगत्रयं दण्डितमात्मसात्कृतं, विमोहराजा रजता रजोबले / त्वयाद्य तस्मिन्नपि दण्डधारिणा, कृता त्रिलोकीप्रभुताद्भुता करे // 19 // अन्वयः--रजोबले, रजता, विमोहराजा, जगत्त्रयं , दण्डितम्, आत्मसात्कृतम् , अध, तस्मिन् ,