________________ 302 ] श्रीजननंषधीयमहाकाव्ये भीशान्तिनाथचरित्रे संसत् , तस्यान्तथा / गणेशितः-गणस्य संघस्य वा ईशिता पतिः स्वामीति यावत् , गणेशिता तस्य तथा / पदे-स्थाने, आस्पदे इति यावत् / आयुक्त-आयोजयति स्म, न्ययोजयदिति वा, भगवानि-- तिशेषः // 11 // परेऽपि चाक्षत्रिमिता गणेश्वरा, बभूवुराप्ताः सदृशं दृशं भृशम् / गणेऽनुगानमविगानधोबलाद्, विशिष्य विश्वासजुषां द्विषामपि // 12 // अन्वयः-अविगानधीबलात् , विश्वास जुषाम् , अनुगानाम् , विशिष्य, द्विषाम् , अपि, गणे, भृशम् , सदृशम् , दृशम् , आप्ता, अक्षत्रिमिता :, परे, अपि, गणधराः, बभूवुः, च // 12 // वृत्तिः-अविगानधीबलात्-अविगाना विशुद्धा चासौ धोबुद्धिरविगानधोस्तस्या बलम् . सामयम् , सैव बलं-शक्तिर्वा अविगानधोबलम् तस्मात्तथा / विश्वासजुषाम्-विश्वासं जुषन्ते सेवन्ते इति विश्वासजुषस्तेषान्तथा / विश्वासपात्राणामिति यावत् / अनुगानाम्-अनु पश्चाद् गच्छन्ति वजन्तीति अनुगाअनुचरास्तेषां तथा / विशिष्य-विशेषरूपेण / द्विषाम्-शत्रूणाम् / अपिसमुच्चये / गणे-समूहे / भृशम्-अतिशयेन / सदृशम्-समानाम् / दृशम्-दृष्टिम् / आप्ता:प्राप्ताः / अक्षत्रिमिता:-षट्त्रिंशत्परिमिताः 36, अङ्कानां वामतो गतिः, अझशब्दस्य षट्सङ्ख्याबोध - कत्वं चेति / परे-अन्ये / अपि-सम्भावनायाम् / गणेश्वरा-गणाध्यक्षाः गणधरा, इति यावत् / बभूवुः-अभवन् / च-समुच्चये // 12 // . पदे पदे मन्ति भटो रणोद्भटाः, प्रशामयन्ते शमिनः स्म तानपि / द्वियुक्तषष्ट्या हि सहस्रसंख्यया, द्विधापि शान्तिक्रमलीनचेतसः // 13 // अन्वयः-रणोद्भटाः, भटाः, पदे पदे, सन्ति, हि, तान्, अपि, द्वियुक्तषष्ट्या, सहस्रसंख्यया, द्विधा, अपि, शान्तिक्रमलीनचेतसः, शमिनः, प्रशामयन्ते // 13 // वृत्तिः-रणोद्भटाः-रणेषु युद्धेषु उगटाः दुर्मदास्तथा, संग्रामदुर्मदा इत्यर्थः / भटाःशूराः / पदे पदे-स्थाने स्थाने वीप्सायां द्विर्भावः / प्रत्येकस्मिन् स्थाने इति भावः / सन्तिविद्यन्ते / हि-निश्चयेन / तान-संग्रामदुर्मदान् / अपि-सम्भावनायाम् / द्वियुक्तषष्ठ्या-द्वाषष्ट्या / सहस्रसंख्यया-सहस्रात्मकसंख्यया / उपलक्षिता इति यावत् / द्वाषष्टिसहस्रसंख्याका इति यावत् / (62000) द्विधा-प्रकारद्वयेन बाह्याभ्यन्तररूपेणेति यावत् / अपि-सम्भावनायाम् / शान्तिक्रमली