________________ -आचार्यविजयासूरीश्वरकृतायां विद्वद्विनोदिन्यां पञ्चमः सर्गः [ 301 विहितः / सः-हननविषयकः / आशय:-अभिप्रायः / क्षयाय-विनाशाय / एव-अवधारणार्थकमव्ययम् / भवेदिति शेषः / / / / इमां नु शिक्षां कथयन्तमीश्वरं, त्वदीक्षणाद्विश्वसितान्तरात्मनः / करोह रक्षां पततो भवाम्बुधा-वितीह चक्रायुधभूपतिर्जगो // 10 // अन्वयः--नु, इमाम् , शिक्षाम् , कथयन्तम् , ईश्वरम् , (प्रति) इह, चक्रायुधभूपतिः, इति, जगो, (इतीति किम् ) भवाम्बुधौ, पततः, (सतः) त्वीक्षणात् , विश्वसितान्तरात्मनः, रक्षाम , करोतु // 10 // वृत्तिः-नु--वितर्के / इमाम्-अनुपदवर्ण्यमानाम् / शिक्षाम-उपदेशम् / कथयन्तम्-निगदन्तम् / ईश्वरम्-परमात्मानम् , श्री शान्तिनाथमिति यावत् / ( प्रति-लक्ष्यीकृत्य ) इह-अत्र / चक्रायुधभूपति:-तन्नामा नरपतिः श्रीशान्तिनाथात्मज इति यावत् / इति-वक्ष्यमानप्रकारेण / जगौगीतवान् , अकथयदिति यावत् / इतीतिकिमित्याह-भवाम्बुधौ-भवः संसार एव अम्बुधिः समुद्रो भवाम्बुधिस्तस्मिंस्तथा / पततः-निमज्जतः / सत इति शेषः / त्वदीक्षणात्-तव भवत ईझणमवलोकनम् , त्वदीक्षणम् , तस्मात्तथा / विश्वसितान्तरात्मनः-विश्वसितो विश्वासमधिगतोऽन्तरात्मा येषान्ते विश्वसितान्तरात्मानस्ताँस्तथा / जनानिति शेषः / रक्षाम्-रक्षणम् , सम्पादयतु इति यावत् / ये तत्रभवति भवति विश्वासमादधानस्तेऽवश्यं श्रीमद्भी रक्षणीया, इति भावः // 10 // ततः प्रपन्नव्रतमेनमेनसा, वियुक्तमायुक्त गणेशितुः पदे / विगर्हितं धर्मधननिवर्हणं, वदन्तमेवं सकलेभ्यसंसदि // 11 // अन्वयः--ततः, प्रपन्नव्रतम् , धर्मधनः, निवर्हणम , विगर्हितम् , एवम् , वदन्तम् , एनसा, वियुक्तम् , एनम् , सकलेभ्यसंसदि, गणेशितुः, पदे, आयुक्तं // 11 // वृत्तिः-ततः-तदनन्तरम् / प्रपन्नव्रतम्--प्रपन्नं स्वीकृतं व्रतं महाव्रतं, चारित्रमिति यावत् , येन स प्रपन्नव्रतस्तन्तथा / धर्मधनैः--धर्मः सुकृतमेव धनं येषान्ते धर्मधनाम्तैस्तथा / निवर्हणम्-- हिंसनम् / विगर्हितम्--विशेषेण निन्दितम् , अस्तीति शेषः / एवम्--अनेन प्रकारेण इति यावत् / वदन्तम्-निगदन्तम् / एनसा-पापेन / वियुक्तम्-विरहितम् / एनम्-चक्रायुधम् / सकलेभ्यसंसदि-सकला निखिलाय ते इभ्या धनाढ्याः सकलेभ्यास्तेषां संसत् सभा परिषदिति यावत्, सकलेभ्य