SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ 30. ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्र सदाऽऽदिनाथार्चनिकादिनादिना-गमे समेता स धनं जनोऽर्जनः / मृषा कषायानपि मा कृथा वृथा, भवेदमीभिः कमलोदयः कियान् // 8 // अन्वयः-सदा, आदिनाथाचनिकादिना, दिनागमे, अर्जनः, धनम् , समेता, सः, (त्वम् ) जनः, मृषा, कषायान् , अपि, वृथा, मा, कृथाः, अमीभिः, कमलोदयः, कियान् , भवेत् // 8 // वृत्तिः-सदा-सर्वदा / आदिनाथार्च निकादिना-आदिनाथस्य युगादिदेवस्य / ऋषभस्वामिनः प्रथमतीर्थकृतः अर्चनिका-पूजनिका, पूजेति यावत् -आदिनाथार्च निका, सा आदि प्रधानं यस्य तत् , आदिनाथार्च निकादि तेन तथा, श्रीमदादीश्वरपूजनादिनेति भावः / दिनागमे-दिनस्य दिवसस्य आगम आगमनम् , दिनागमस्तस्मिंस्तथा / शुभदिने-समागमने ते सतीति भावः / . अर्जनैः-उपार्जनैः / कृत्वेति शेषः / धनम्-ऐश्वर्यम् सम्पत्तिमिति यावत् / समेता-प्राप्ता / सःप्रसिद्धः / (त्वम्-त्वल्लक्षणः) जनः-लोकः / मृषा-मिथ्याभूतान् / कषायान्-क्रोधलोभादीन् / अपि-सम्भावनायाम् / वृथा-व्यर्थम् , निष्फलमिति यावत् / मा कथा:-नैव कुरु / यत इति शेषः / अमीभिः-कषायैः / कमलोदयः-कमलाया लक्ष्म्या उदयः प्राप्तिः कमलोदयः / कियान-किं परिमाणमस्येति कियान् , कियत्परिमाणक इति यावत् / यथोदकवृद्धयर्थ समुद्रेण हिमकणा नाद्रियन्ते तथा लक्ष्मीवृद्धयर्थ कषाया नादरणीया इति भावः // 8 // न केवलं प्राणिवधो वधो मम-प्रसक्तिभाजैकवपुष्मतीहितः। तदाश्रयोन्याङ्गिजिघांसयाशयः, कृतः क्षयायैव स नारकाश्रये // 9 // अन्वयः--नारकाश्रये, एकवपुष्मति, वधः, केवलम् , प्राणिवधः, न, तदाश्रयान्याङ्गिजिघांसया, मम-प्रसक्तिभाजा, इहितः, (अत एव) कृतः, सः, आशयः, क्षयाय, एव, (भवेत् ) // 9 // - वृत्तिः-नारकाश्रये-नारको नरक आश्रयः आधारो यस्य स नारकाश्रयस्तस्मिंस्तथा / एकवपुष्मति-एकश्च तद् वपुः शरीरम् एकवपुस्तदाश्रयत्वेनास्त्यस्येत्येकवपुस्मात् तस्मिंस्तथा, एकजीवे इत्यर्थः / वधः-हननम् हिंसेति यावत् / केवलम्-मात्रम् / प्राणिवधः-जीवहिंसा / न-नहि / तदाश्रयान्याङ्गिजिघांसया-अन्ये-अपरे च ते अङ्गिनो जीवा अन्याङ्गिनः,तदाश्रया नारकाश्रयाश्च तेऽन्याङ्गिनस्तदाश्रयान्याङ्गिनस्तेषां जिघांसा हननेच्छा तदाश्रयान्यानिजिघांसा तया तथा। ममासक्तिभाजा-ममो ममत्वम्, ममतेति यावत् ममशब्दोऽदन्तः,अममनिर्ममादिवत् , तत्र प्रसक्तिः प्राप्तिरासक्तिरिति यावत् / ममप्रसक्तिस्वां भजते इति ममप्रसक्तिभाक् तेन तथा। रागिणा-जनेनेत्यर्थः / ईहित:-चेष्टितः, अत एव / कृतः
SR No.004339
Book TitleShantinath Charitram
Original Sutra AuthorAmrutsuri
AuthorAbhaydevsuri
PublisherJain Sahitya Vardhak Sabha
Publication Year1965
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy