________________ -आचार्य विजयमृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां पंचमः सर्गः / [ 303 नचेतसः-शान्तेः-प्रशमस्य, क्रमः-परिपाटी, शान्तिक्रमस्तत्र लीनं-मग्नं चेतो अन्तःकरणं येषान्ते तथा / पक्षे-नामैकदेशे नामग्रहणात् शान्तिनाथस्य क्रमौ चरणौ शान्तिक्रमौ तत्र लीनं चेतो येषान्ते तथा / शमिनः शान्तचेतसः / साधव इति यावत् / प्रशामयन्ते-सान्त्वयन्ति / आसीच्च भगवतोऽर्हतः श्रीशान्तिनाथस्य द्वाषष्टिसहस्रपरिमितो मुनीनां परिवारः इति // 13 // सदा तदा-पटलेषु शूकता-ऽऽनतेषु हिंसारस एष पूर्यते / कचित् क्षमायां न मनाक् तदुन्मनाः,स नारकानेव निषेवतां न किम् ? // 14 // अन्वयः-सदा, शूकताऽऽनतेषु, तदापिटलेषु, क्षमायाम् , क्वचित् , मनाक्, (अपि) एषः, हिंसारसः, न, पूर्यते, तदुन्मनाः, सः, नारकान् , एव, किम् , न, निषेवताम् // 14 // वृत्तिः-सदो-सर्वदा / शुकताऽऽनतेषु-शवन्ति गच्छन्ति परदुःखप्रहाणेच्छामनेनेति शूकः स एव शूकता स्वार्थे कथञ्चि 'त्तलप्रत्ययः' दयेत्यर्थः / तत्र आनतास्तत्परास्तदर्थपरा इत्यर्थः, शूकतानतास्तेषु तथा। अथ दया शूकः, कारुण्यं करुणा घृणा' 3 / 33 / इत्यभि० चि० / तदा-पटलेषु-श्रीशान्तिनाथजिनवरसाध्वीसमुदयेषु / क्षमायाम्-पृथिव्याम् दयायां सत्यां वा / क्वचित्-कुत्रचित् / मनाक्ईषत् / (अपि) एषः-अयम् / हिंसारसः-हिंसायां प्राणातिपातप्रवृत्तौ रसो रागः तथा / न-नहि / पूर्यते-परिपूर्णो भवति / तदुन्मना:-तस्यां हिंसायामुन्मना उत्सुकस्तदुन्मनाः / सः-हिंसारसः / नारकान्-नरकान् / नरकस्य इमे नारकाः, नरकसम्बन्धिनो जीवास्तान् वा / एव-अवधारणार्थकमव्ययम् / किम्-कथम् / न-नहि / निषेवताम्-निःशेषेण सेव. स तानेव गच्छत्विति भावः // 14 // प्रमाणमा-स्वपि भूरसमिते-रभूत् सहस्रैर्यदुदीर्णया गिरा / धिगीदृशं ते नृपते ! कुविक्रम, प्रजेशमूचे मृगयाऽशुचिं शुचिः॥१५॥ . अन्वयः-भूरसैः, मितः, सहस्र':, (उपलक्षितासु) आय-सु, अपि, प्रमाणम् , अभूत् , (अथ च) यदुदीर्णया, गिरा, शुचिः, प्रजा, (हे) नृपते ! , ईदृशम् , मृगयाऽशुचिम् , ते, कुविक्रमम् , धिक। (इत्यवग् ) ईशम् , उचे // 15 // वृत्तिः-भरसैः-एकषष्ट्या / मितः-परिमितैः / सहः-सहस्रसंख्याभिः। (उपलक्षितासु, आर्यासु-श्रेष्ठासु, साध्विष्वित्यर्थः / अपि-सम्भावनायाम् / प्रमाणम्-प्रकृष्टं मानं प्रमाणम् / अभूत-अभवत् / सम्पन्नमिति यावत् / भगवतः शान्तिनाथस्य परिवारे साध्व्य एकषष्टिसहस्रमिता