________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां षष्ठः सर्गः [ 297 ब्रुवन् / स्तुवन्-प्रशंसन् / अपि-समुच्चये / एषः-मुमुक्षुरयम् / निजाम-आत्मीयाम् / भवस्थितिम्-संसारावासनिवासम् / जराजन्मकृताधिसंस्थिताम्-जरा वार्धक्यम् , जन्म जननम् , ताभ्यां कृते विहिते ये आधि संस्थे मनस्तापमरणे ते सञ्जाते अस्याः सा तां तथा / 'संस्था स्पशे स्थितौ मृत्या' वित्यनेकार्थः / हि बै-नूनम् / विनिश्चिकाय-निर्णीतवान् / / 2 / / मुखेऽपि नोलीकरुचिर्महात्मनां, न संशयो वा न पराशनाशयः / अवादि तेनाथ समानसौकसा-मुपाश्रयत्संसदि चाहतेत्यहो // 3 // अन्वयः-अथ, महात्मनाम् , मुखे, अपि, नालीकरुचिः, संशयः, न, वा, पराशनाशयः, न, इति, तेन, अर्हता, समावसौकसाम् , उपाश्रयत्संसदि, अवादि, अहो, च // 3 // वृत्तिः-अथ-अनन्तरम् / महात्मनाम्-महान्त आत्मानो महात्मानः, महान् विशाल आत्मा येषां ते वा महात्मानः, अथवा-महान् आत्मा मनीषा बुद्धि तिर्वा येषां ते महात्मानस्तेषां तथा / मुखे-आनने / अपि-सम्भावनायामव्ययम् / नालीकरुचिः-अलीका मिथ्या रुचिरभिलाषोऽलीकरुचिः, न अलीकरुचिः नालीकरुचिः, नालीकस्य कमलस्य रुचिर्दीप्तिर्नालीकरुचिर्वा / संशयःएकधार्मिकविरुद्धकोटिद्वयावगाहिज्ञानम् / न-नहि / तेषां ज्ञानेन याथार्थ्यप्रतीतेः, अल्पज्ञस्य वह्निस्तदभावो वेति संशयादनुमित्यादिना वस्तुतत्त्वावगमात् , महात्मनान्तु अनुमितिकारणस्य संशयस्यैवाभावात् कारणाभावप्रयोज्यकार्याभावोऽवसेयः / वा-समुच्चये / पराशनाशयः-परेषामन्येषामशनं भक्षणं पराशनम् , हिंसा तत्र आशयोऽभिप्रायो पराशनाशयः। न-नहि / इति-एवं प्रकारेण / तेन-प्रसिद्धेन / अर्हता-जिनेश्वरेण / समानसौकसाम्-मानेन-सहिताः समानाः, सज्ञानाः, तुल्या वा, ते च ते सोकसः सागारिणः, सभवना इति यावत्, समानसौकसस्तेषां तथा / उपाभयत्संसदि-उपाश्रयन्ती चासौ संसत् सभा, उपाश्रयत्संसत् तस्यां तथा / पूर्वपदार्थस्योपाश्रयस्य अन्यपदार्थसाकारतयाऽसामर्थ्येन समासोऽसङ्गत, इति नो शङ्कयः देवदत्तस्य गुरुकुलम् , “चैत्रस्य दासभा-" इत्यादिप्रमाणिकानां प्रयोगदर्शनात् / नित्यसाकाझातिरिक्तस्थल एव तथादोषस्य स्वीकारात् / अवादि-उक्तम् / अहो-आश्चर्ये / च-पादपूरणे // 3 // तदस्ति नाभ्यस्तमिह घसदुबल, छलं जयन्मन्त्रकलञ्च चञ्चलम् / तनूभृता येन यमोऽपि जीयते, जनाधिनाथः करपञ्जरस्पृशा // 4 // अन्वयः-इह, तत् , जयन्मन्त्रकलम् , च, चन्चलम् , धुसद्वलम् , छलम् , न, अभ्यस्तम् , अस्ति, येन, करपञ्जरस्पृशा, तनुभृता, जनाधिनाथः, यमः, अपि, जीयते // 4 //