________________ 298 ] भीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे वृत्तिः-इह-अर्हत्साम्राज्ये / तत्-प्रसिद्धम् , तादृशं वा / जयन्मन्त्रकलम्-जयन्नी विजयशीला मन्त्रकला, तन्त्रमन्त्रकौशलम् यस्मिन् तत्तथा। (अत एव) चञ्चलम्-चपलम् , अशाश्वतमिति यावत् / यसबलम्-दिवि स्वर्गे सीदन्तीति घसदो देवास्तेषां बलम् सामर्थ्य शक्तिरिति यावत् / छलम्-कैतवम् , कपटमिति यावत् / अभ्यस्तम्-व्यवसायविषयीभूतम् / न-नहि / अस्ति-वर्तते / येन-यादृशेन, छलेनेति यावत् / करपञ्जरस्पृशा-करपञ्जरं हस्तलक्षणं बन्धनयन्त्रम् स्पृशतीति करपअरस्पृक् तेन तथा। यमस्येति शेषः / यमराजकरपञ्जरवर्तिनेति यावत् / तनूभृता-तनुं शरीरं, बिभर्ति धारयतीति तनूभृत् प्राणी तेन तथा / जनाधिनाथ:-जनानां-लोकानामाधिमनोव्यथा जनाधिस्तस्य नाथः स्वामी सम्पादक इति यावत् जनाधिनाथः / यमः-कृतान्तः / अपि-सम्भावनायाम् / जीयते-विजयकर्मीक्रियते // 4 // धिगस्तु तृष्णातरलं भवन्मनः, समुच्छलद्वाजिबलं विलोक्य यत् / परं परार्थाच्च परम्परार्थतः, समुन्मिषद् भूरिमिषेषु हे जनाः // 5 // अन्वयः-हे जनाः !, परार्थात् , परम्, च, परम्परार्थतः, भूरिमिषेषु, समुन्मिषत्, समुच्छलदाजिबलम् , विलोक्य, यत् , भवन्मनः, तृष्णातरलम् , (तत्) धिक, अस्तु // 5 // वृत्तिः-हे जनाः !-हे लोकाः ! परार्थात-परः-उत्कृष्टो, यो अर्थः प्रयोजनं मोक्षसाधनादिपरार्थस्तस्मात् तथा / परम्-दूरम् / दूरस्थितिमिति भावः / परम्परार्थतः-परम्परया-क्रमेण, अर्थो-धनम् , परम्परार्थस्तस्मात्तथा / भूरिमिषेषु-भूरीणि-प्रचुराणि मिषाणि-कपटानि, भूरिमिषाणि तेषु तथा / समुन्मिषत्-प्रस्फुटत्, दीप्यमानम् , जागरुकमिति यावत् / समुच्छलद्वाजिबलम्वाजिनोऽश्वाश्व बलानि-सैन्यानि, च वाजिबलम्, 'सेनाङ्गत्वादेकवद्भावः, समुच्छलद्दीप्यमानं च तद् वाजिबलम्, समुच्छलद्वाजिबलम् तत्तथा / विलोक्य-अवलोक्य / यत्-यादृशम् / भवन्मनःयुष्मदन्तःकरणम् / तृष्णातरलम्-तृष्णया-लोभेन, लालसया वा तरलम्-चञ्चलमाकुलमिति यावत् , तृष्णातरलम् / तत्-तादृशं मनः / धिक्-अस्तु, तादृशमनसो धिक्कारोऽस्त्वित्यर्थः / / 5 / / करोषि किं दुर्जनतां धनान्वितान्, समीक्ष्य पक्षान्मम हेमजन्मनः / भृशं सखायो विवदन्त इत्यतः, परिग्रहे नाग्रहयालुता हिता // 6 // अन्वय:--हेमजन्मनः, धनान्वितान् , मम, पक्षान् , समीक्ष्य, दुर्जनताम् , किम् , करोपि,