________________ // अय पष्ठः सर्गः // न जातरूपच्छदजातरूपता, न कङ्कणाद्याभरणैरलकृतिः / मुमुक्षुणा क्वापि विधीयतां धिया, स्वजातरूपैकसिचा भवद्रुचा // 1 // अन्वयः-स्वजातरूपंकसिचा, भवद्रुचा, मुमुक्षुणा, धिया, क, अपि, कङ्कणाद्याभरणी, अलकृतिः, न, जातरूपच्छदजातरूपता, न, (इति) विधीयताम् // 1 // वृत्तिा-स्वजातरूपेकसिचा-स्वस्मिन्-आत्सनि, जातमुत्पन्नं रूपं सौन्दर्यमेव एकमद्वितीयं सिक-वस्त्रं यस्य स स्वजातरूपैवलिक, तेन वथा / अत एव, भवद्रचा-भवन्तो-जायमाना एक कान्तिर्यस्य स भवद्रुक् तेन तथा / मुमुक्षुणा-मोक्षविषयकाभिलाषवता / धिया-बुद्धया / ककुत्र / अपि-सम्भावनायाम् / करणायाभरणैः-कङ्कणं वलयम् आदिर्यषान्तानि कङ्कणादीनि, तानि च तान्याभरणानि भूषणानि अलङ्कारा इति यावत् , कङ्कणायाभरणानि तैस्तथा / अलङ्कातःअलङ्कारः, शोभेति यावत् / न-चहि / जातरूपच्छदजातरूपता-जातं रूपमस्य, जातरूपम् कृतकरूपं सुद्रोदेशजम्, सुवर्णमिति यावत् , तद्वच्छदाः वस्त्राणि वस्त्रे वा, जातरूपच्छहा जातरूपच्छदौ वा तैस्ताभ्यां वा जातमुत्पन्नं रूपं सौन्दर्य यस्य स जातरूपन्छ इजातरूमस्तस्य भावो, जातरूपच्छदजातरूपता / (इति) विधीयताम्-क्रियताम् / मुमुक्षुणां ज्ञानदर्शनादिकमेव समोचोनमंशुकमलकरगं न तु लौकिकमंशुकमाभरणं वा तेषां भूषणमिति सूचितम् // 1 // वदन् स्वरागादपि वैभवस्थिति-र्द्विजस्य दृष्टेयमिति स्तुवन मुहुः / / विनिश्चिकायैष हि वै भवस्थिति, निजां जराजन्मकृताधिसंस्थिताम् // 2 // अन्वयः-द्विजस्य, इयं, वैभवस्थितिः, दृष्टा, इति, स्वरागात् , मुहुः, वदन, स्तुवन् , अपि, एषः, निजाम् , भवस्थितिम् , जराजन्मकृताधिसंस्थिताम् , हि, वै, विनिश्चिकाय // 2 // वृत्तिः-द्विजस्य-मुनेः, द्विर्जातत्वात्तस्येति / इयम्-एषा, पूर्वोक्ता। वैभवस्थितिः-विगतभवतयावस्थानम् , संसारत्यागजनितपूर्वैश्वर्यप्राप्तिरिति यावत् / दृष्टा-दृष्टिपथमानीता / अनुभवविषयतामापादितेति यावत् / इति-इत्येवम् / स्वरागात्-स्वरसतः / मुहुः-भूगोभूयः / बदन्