________________ -आचार्य विजयमृतसूरीश्वरकृतायां विद्विनोदिन्यां पंचमः सर्गः / - [ 295 लङ्कृती पुनः कापि” इति काव्यप्रकाशकारमम्मटोपाध्यायलक्षितम् / “वाक्यं रसात्मकं काव्यम्" इति विश्वनाथेनाभिहितम / “रमणीयार्थप्रतिपादकः शब्दः काव्यम" इति पण्डितराजजगन्नाथलक्षितम् वा, विस्मयकृत्काव्यम् तस्मिंस्तथा / सज्जनसंसर्गात-सन्तः समीचीनाश्च ते जना मानवाः सज्जनास्तैः संसर्गः सम्पर्कः सज्जनसंसर्गस्तस्मात्तथा / श्रेयोऽध्ययनतत्परै:-श्रेयोऽतिप्रशस्तं च तदध्ययनं श्रेयोऽध्ययनम् तत्र तत्परा आसक्ताः श्रेयोऽध्ययनतत्परास्तैस्तथा 'तत्परे प्रसितासक्ता' वित्यमरः / अस्माभी रचित इति शेषः / यद्वा-श्रेयोऽतिप्रशस्तमध्ययनं श्रेयोऽध्ययनम् , तत्र तत्परा आसक्ता ये ते श्रेयोऽध्ययनतत्परास्तैस्तथा / श्लोकैरिति यावत् / सुशोभित इति शेषः / पञ्चमाञ्चित:-पचमैश्चतुरैरश्चितः प्रशस्तः पन्चमाहितः 'पञ्चमो रुचिरे दक्षे इत्यनकार्थः / अयमिति शेषः / पञ्चमः-पञ्चानां पूरणः पञ्चमः, नान्तत्वान्मट प्रत्ययस्तद्धितः / सर्ग:-अध्यायः / यद्वा-तस्मिन् विस्मयकृत , पञ्चमाश्चितः पञ्चमः सर्ग इत्येवमन्वेयम् / अन्यञ्च समानमिति बोध्यम् // 7 // इति-वाचकप्रवरश्रीमेघविजयजिद्गणीश्वरविरचिते श्रीनैषधीयमहाकाव्यप्रथमसर्गपादपूर्तिस्वरूपे श्रीशान्तिनाथचरित्रे शासनसम्राट्-सूरिचक्रचक्रवर्ति-तपागच्छाधिपति-भट्टारकाचार्य-महाराजाधिराजश्रीविजयनेमिसूरीश्वर-महाराजपट्टालङ्कारशास्त्रविशारदकविरत्न-पीयूषपाणि-पूज्यपादाचायमहाराज श्रीविजयामृतसूरीश्वर-विरचित-विद्वद्विनोदिनीनामवृत्तिविभूषिते // पञ्चमः सर्गः समाप्तः //