________________ 294 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनापरिख प्रभाते / खगाः-पक्षिणः / आरवैः शब्दैः / तम्-तादृशं नरं सुरं वा / आचुक्रुशुः-आक्रोशयन् , निन्दितवन्त इति यावत् / इव-यथा // 8 // भवेऽस्मदीयेऽजनि यत्र न प्रभुः, प्रभा स्वभावेन जिनेन्द्रसेवने / प्रतिप्रभात द्विजरूपमागताः, खगास्तमाचुक्रुशुरोरवैः खलु // 69 // अन्वयः-यत्र, अस्मदीये, भवे, स्वभावेन, जिनेन्द्रसेवने, प्रभा, न, प्रभुः, अजनि, पतिप्रभातम् , दिजरूपम् , आगताः, खगाः, खलु, आरवैः, तम् , आचुकुशुः / / 69 // ___ वृत्तिः-यत्र-यस्मिन् / अस्मदीये-अस्माकमयमस्मदीयस्तस्मिंस्तथा / भवे-जन्मनि / स्वभावेन-निसर्गतः। जिनेन्द्रसेवने-जिनेन्द्रस्य जिनेश्वरस्य, सेवनं शुश्रूषणं भक्तिरिति यावत् , जिनेन्द्रसेवनम् तमिस्तथा / प्रभा-बुद्धिः / न-नहि / अजनि-जाता / प्रतिप्रभातम्-प्रभातं प्रभातं प्रति प्रतिप्रभातम् , वीप्सायामव्ययीभावसमासः / द्विजरूपकम्-पक्षिस्वरूपम् विहगाऽऽकारमिति यावत् / आगताः-प्राप्ताः / पक्षिरूपेण समागता इति भावः / खगाः-खे-आकाशे, गच्छन्ति-विचरन्तीति खगा देवा विद्याधरा वा / खलु-निश्चयेन / आरवैः-कूजनात्मकशब्दैः / तम्-तादृशम् , निजभवमित्यर्थः / आचुक्रशु:-आक्रोशयन् , निन्दितवन्त इति यावत् // 6 // गच्छाधीश्वरहीरहीरविजया-म्नाये निकाये धियां, प्रेष्यः श्रीविजयप्रभाख्यसुगुरोः, श्रीमत्तपाख्ये गणे। शिष्यः प्राज्ञमणेः कृपादिविजय-स्याशास्यमानाग्रणी श्चक्रे वाचकनाममेघविजयः, शस्याँ समस्यामिमाम् // 70 // . (व्याख्यातपूर्वः श्लोकोऽयम् ) तस्मिन् विस्मयकृतकाव्ये, पञ्चमः पञ्चमाञ्चितः। सर्गः सज्जनसंसर्गात्, श्रेयोऽध्ययनतत्परैः // 7 // अन्वया--तस्मिन्, विस्मयकृत्काव्ये, सज्जनसंसर्गात्, श्रेयोऽध्ययनतत्परैः, ( अस्माभिः रचितः) पञ्चमाञ्चितः, ( अयम् ) पञ्चमः, सर्गः // 71 // इतिः तस्मिन्-तादृशे नैषधात्मके इति भावः / विस्मयकृत्काव्ये-विस्मयमाश्चर्य करोतीति विस्मयकृत् , सब तत्काव्यं सहृदयहृदयाहादिशब्दार्थमयम् "तददोषौ शब्दार्थों सगुणावन