________________ भाबननवधायमहाकाव्य श्रीशान्तिनाषचरित्र नवा सयोग्या वसुधेयमीदृशः, प्रभाविहारे त्रिदशैरपि स्तुता / रसान न कांस्कान समसूत नूतनान,स्वतः स्वमापूर्य च तूर्यनिःस्वनैः॥६५ अन्वयः--प्रभोः, विहारे, नवा, सयोग्या, इयम् , वसुधा, त्रिदशैः, अपि, स्तुता, (अथ) च, स्वतः, तूर्यनिःस्वन:, स्वम् , अपूर्य, नूतनान् , कान् , कान , रसान, न, समसूत // 65 // वृत्तिः-प्रभोः-भगवतः शान्तिनाथस्य / विहारे-विचरणे / सतीति शेषः / नवा-नूतना / सयोग्या-योग्यैः योग्यपुरुषैः सहिता सयोग्या / इयम्-एषा / वसुधा-भूमिः / त्रिदशैः-देवैः / अपि-सम्भावनायाम् / स्तुता-प्रशंसिता / अयेति शेषः / च-पुनः / स्वतः-स्वयंजातैः / तूर्यनिःस्वनैः-वाद्यनिनादैः / स्वम्-आत्मानम् / आपूर्य-सर्वतोभावेन पूरयित्वा / नूतनान्-नवीनान् / कान कान-कीदृशानित्यर्थः / विप्सायां द्विर्भावः / रसान-गन्धान , शृङ्गारादीन ; तिक्तोदीनं मसु. रागान् , धातुभेदान , अस्वादादीनित्यर्थः / “रसो गन्धे रसे जले" 'शङ्गारादौ विर्षे वीर्य, तिक्तादीद्रवरागयोः देहधातुप्रभेदे च, पारदस्वादयोः पुमान्' इति मेदिनी / न-नहि। समसूत-समुत्पादयत् , भपि तु निखिलानेवेति भावः // 65 // दिगाऽऽह पूर्वाप्यपरामधो भव, त्वमङ्ग यस्याः ! पतिरुज्झितस्थितिः / जडेषु नाथः कृतवारुणीरुचि-र्ममेशितेन्द्रस्तु शतक्रतुर्जिने // 66 // अन्वयः--अङ्ग !, जडेषु, नाथः, कृतवारुणीरुचिः, यस्याः, (ते) पतिः, उज्झितस्थितिः, (वर्तते) (सा) त्वम् , अधोभव, (इति) अपराम , (प्रति) पूर्वा, दिक् , आह, अपि, मम, ईशिता, इन्द्रः, तु, जिने, शतक्रतुः // 66 // - वृत्तिः-अङ्ग !-अङ्गतीत्यङ्ग, सम्बोधनार्थकमव्ययम् / जडेषु-अज्ञेषु, / डलयोरभेदात् , जलेविति भावः / नाथः-स्वामी। कृतवारुणीरुचि:-कृता विहिता वारुण्यां मदिरायां पश्चिमाया रुचिरभिलाषो येन स तथा / यस्याः-यादृश्याः। (ते-तव) पतिः-स्वामी / उज्झितस्थितिः-उज्झिता-त्यक्ता, स्थितिमर्यादा येन म तथा / वर्तते इति शेषः / (सा-तादृशी) त्वम-मवती पश्चिमी दिक् / अधोभव-नीचैवर्तस्वं / नीचवद्व्यवहारमालम्बस्वेत्यर्थः / इति एवम् / अपरांम-पश्चिमाम् / ( प्रति-लक्ष्यीकृत्य ) पूर्वा-ऐन्द्री / दिशा-दिक् / आह-ब्रवीति / अर्पि-सम्भावनायाम् / ममपूर्वस्याः दिशो मे / ईशिता-स्वामी / इन्द्रः-पाकशासनः / पुरन्दर इति यावत् / तु-किन्तु / जिनै