________________ बाचा विषयामृतसूरीश्वरकृतार्या विद्वदिनोदिन्यां पञ्चमः सर्गः / [ 291 . तीरे, नद्याः पद्माकरस्येति वा इति शेषः / चुकूज-कूजितवती // 6 // (पाठान्तरम् ). जिनानुरागाद् सदाऽनुयायिना, स्वहसरूपावलिभिः समं पथि / कचिचटिन्या निजजातिदर्शना-चुकूज कूले कलहंसमण्डली // 64 // . . अन्वयः-पथि, क्वचित् , तटिन्याः, कृले, जिनानुरागात्, स्वहसरूपावलिभिः, समम् , अनुयायिना, घुसदा, निजजातिदर्शनात् , कलहंसमण्डली, चुकूज / / 64 // वृत्तिः-पथि-मार्गे / कंचित-कुत्रचित् / तटिन्या:-तरङ्गिण्याः / नद्या इति यावत् / कूले तीरे / जिनानुरागात-जिनेऽर्हति भगवति शान्तिनाथे, अनुरागः प्रेम जिनानुरागस्तस्मात्तथा। स्वहंसरूपावलिभिः-प्रशस्ता हंसाः हंसरूपास्तेषामावलयः पड़तयोः हंसरूपावलयः, स्वीयाश्च ता हंसरूपावलयः स्वहसरूपावलयस्ताभिस्तथा / समम्-सह / अनुयायिना-अनुयातुमनुगन्तुं शोलमस्येत्यनुयायी तेन तथा / द्यसदा-दिवि स्वर्गे सीदतीति घुसत् देवस्तेन तथा / जातावेकवचनम् , देवैरित्यर्थः / कृत्वेति शेषः / निजजातिदर्शनात-स्वसजातीयावलोकनात् / कलहंसमण्डली-कलध्वनयो मधुराव्यक्तशब्दवन्तो हंसाः कलहंसाः कादम्बाः अतिधूसरपझोपलक्षिता हंसविशेषा इति यावत् , तेषां मण्डली कदम्बकम् तथा / चुकूज-कूजितवती // 64 // - प्रभोः प्रभावादविरोधबोधनात् , सहैव सिंहेन मृगी वनेऽचरत् / बिडालबालेन समं रिरंसया, चुकूज कूले कलहंसमण्डली // 64 // अन्वयः-प्रभोः, प्रभावात् ,अविरोधबोधनात् , मृमी, सिंहेन, सह,एव, धने, अचरत् , (अथ च) रिरंसया, बिडालबालेन, समम्, कलहंसमण्डली, कूले, चुकूज; // 64 // वृत्तिः-प्रभोः-विभोः, शान्तिनाथस्य / प्रभावाव-अनुभावाद , प्रतापादिति यावत् / अविरोधबोधनाव-न विरोधो विद्वेषोऽविरोधस्तस्य बोधनं ज्ञानमविरोधबोधनम् तस्मात्तथा / मृगीहरिणी / सिंहेन-द्विपेन्द्रेण कण्ठीरवेणेति यावत् / सह-सार्द्धम् / एव-अवधारणार्थकमव्ययम् / वनेफानने / अचरत-अभ्रमत्, विचरणसुखमनुभूतवतीति यावत् / (अथ च) रिरसया-रन्तुं क्रीडितुमिच्छा रिरंसा तया तथा / रन्तुमिच्छयेत्यर्थः / बिडालबालेन-बिडालस्य-मार्जारस्य बालः शिशुबिंडालबालस्तेन तथा / समम्-सह / कलहंसमण्डली-कादम्बकदम्बकम् / कूले-नदीवीरे / चुकूजकुजितवती // 6 //