________________ 29. ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्र .. अन्वयः-सुरे:, सुगन्धिभिः, मणीवकः, आजानुपदम् , वृष्टिा, कृता, इह, अलिमालया, पनि, विशाम्, स्मेरदृशाम्, चलत्पदाम्भोरुहनूपुरोपमा, समादधे // 63 // .. वृत्तिः-सरैः-देवैः / सगन्धिभिः-सुष्ठु शोभनो गन्धः सौरभविशेषो येषां तानि सुगन्धीनि बहुव्रीहिसमासोत्तरं समासान्त 'इन्' प्रत्ययः, तैस्तथा / मणीवकः-मणन्ति भ्रमणैर्मणीवकानि प्रसूनानि कुसुमानीति यावत् तैस्तथा। 'प्रसूनं कुसुमं सुमम् / पुष्पं सून सुमनसः प्रसवश्व मणीवकम्' 4 / 191 / इत्यभि० चिः। आजानुपदम्-जानुनी ! ऊरुपर्वणी 'नलकीलाविति यावत् , च पदे चरणौ च जानुपदम् , प्राण्यङ्गत्वादेकवद्भावः, जानुपदात् आ आजानु पदम्, आङोऽभिविध्यर्थकत्वात् जानुपदमभिव्याप्येत्यर्थः / वृष्टिः-वर्षणम् पातो वा / कृता-विहिता / इह-अत्रस्थले / अलिमालया-भ्रमरोंण्या, मधुकरकदम्बकेनेति यावत् / पथि-मार्गे / विशाम-मनुजानाम् 'मर्त्यः पञ्चजनी भूस्मृक .. पुरुषः पूरुषो नरः / मानवो मानुषो ना विट् मनुजो मानवः पुमान्' 3 / 2 इत्यभि०चि० / स्मेरदृशाम्स्मेरे ईषद्विकसिते दृशौ नयने यास ताः स्मेरदृशस्तासां तथा समुल्लसितलोचनानामिति यावत् / रमणीनामिति शेषः / चलत्पदाम्भोरुहनूपुरोपमा-चलन्ती च ते पदाम्भोरुहे चरणकमले, चलत्पदाम्भोरुहे तयोर्वर्तमानौ नूपुरौ तयोरुपमा साम्यम् तथा / समादधे-धृता / श्रितेति यावत् / / 63 / / सरित्प्रचारेऽपि सितच्छदास्तदा, स्वभावनालीकरचो व्रतिव्रजे / निरीक्ष्य सारूप्यधिया शनैश्चरा, चकूज कूले कलहंसमण्डली // 64 // अन्वयः-तदा, स्वभावनालीकरुचः, सितच्छदान् , निरीक्ष्य, सरित्प्रचारे, तिब्रजे, अपि, सारूप्यधिया, शनैश्चरा, कलहंसमण्डली, कूले, चुकूज // 64 // वृत्तिः-तदा-तस्मिन् समये / स्वभावनालीकरुचः-न अलीकरुचो नालीकरुचः, स्वभावेन नालीकरुचः स्वभावनालीकरुचो मुनयस्ताँस्तथा। पक्षे-नालीकस्यः कमलस्य रुक् कान्तिः नालीकरुक नालीकरुगिव रुक येषां ते नालीकरुचः स्वभावेन नालीकरुचः स्वभावनालीकरुचस्तांस्तथा / सितच्छदान-सितौ सुक्लौ छदौ वस्त्रे पूर्वोत्तरीये येषान्ते सितच्छदास्ताँस्तथा / हंसपक्षे च सिताः शुक्लाः छदाः पक्षा येषान्ते सितच्छदाः श्वेतपक्षा हंसास्ताँस्तथा / निरीक्ष्य-समवलोक्य / सरित्प्रचारे-सरिति सरित्प्रान्ते, प्रचारो विचरणं यस्य स सरित्प्रचारस्तस्मिँस्तथा / व्रतिव्रजे-प्रतिनां व्रतं नियमोऽस्त्येषामिति वतिनः श्रमणास्तेषां व्रज समुदयो बतिब्रजम् तस्मिंस्तथा / अपि-सम्भावनायाम् / सारूप्पधिया-समान तुल्यं रूपं स्वरूपमाकृतिरिति यावद्येषान्ते सरूपास्तेषां भावः सारूप्यम् , तस्य धीर्बुद्धिः सारूप्यधीस्तया तथा / शनैश्चरा-मन्दगमनशीला / कलहंसमण्डली-राजहंसश्रेणी / कूले