________________ आचार्षविष्यामृतसूरीश्वरस्कृतायां विनोदिन्या पञ्चकः सर्वः [ 289 अन्वयः-तत् , सूरः, चिरेण, पदानुरागिणा, राजहंसेन, पतत्विया, शिवम् , श्री कमलाकरः, परी, लक्षणैः, न (वचितम् ) (अथ च) विमोः, पदश्रिया, चार, भरुचत् // 31 // वृत्तिः-तत्-तस्मात् / सर-पद्माकरः / चिरेण-बन्धुरेण, मनोहारिणेति यावत् / पदानुरागिणा-पदयोश्चरणयोरनुरागो लौहित्यम पदानुरागः, मोऽस्त्यस्येति पदानुरागी, "अतोऽनेकस्वरात्" 7 / 2 / 6 // इत्यनेन मत्वर्थे “इन्” प्रत्ययः, तेन तथा / राजहंसेन-अतिलोहितचन्चुचरणहंसाभिधानेनेत्यर्थः / पतत्रिणा-पक्षिणा / वञ्चितम्-प्रतारितम् , विरहितमिति भावः / न-नहि / श्रीकमलाकर:-कमलाकरस्य श्रियः शोभाः लक्ष्म्यः सम्पत्तयो वा श्रीकमलाकरास्तैस्तथा, पद्माकरशोभाभिरित्यर्थः / राजदन्तादित्वात् पूर्वनिपाताईस्य परनिपातः / परै:-अन्यैः उत्कृष्टैर्वा / लक्षणैःसौभाग्यसूचकचिन्हैः / न-नहि / वञ्चितमिति शेषः / अथ च-विभोः-प्रभोः शान्तिनाथस्य / पदश्रिया-पादलक्ष्म्या। चरणशोभयेति यावत् / चारु-मनोझं यथा स्यात्तथा / अरुचत्-अदीप्यत, अयोततेति यावत् / / 61 // कृते विहारे विभुना ततः समं, श्रियः प्रयान्त्याः प्रविहाय पल्वलम्। अधायि चक्रेण तु हंसकप्रभा-नभासरस्या घनपुष्करोदयः // 12 // अन्वयः-ततः, विहारे, कृते, विमुना, समम्, पल्वलम् , प्रविहाय, प्रयान्त्याः, श्रियः, चक्रेण, तु, हंसकप्रभानभःसरस्याः, घनपुष्करोदयः, अधायि // 62 // वृत्तिः-ततः-तदनन्तरम् , तस्मात् स्थानाद् वा / विहारे-विहरणे विचरणे इति यावत् / 'कते-विहिते। सतीति शेषः / विभुना-प्रभुणा; भगवता शान्तिनाथेनेति यावत् / समम्-सहैवेत्यर्थः / पवलम्-अल्पकासारम् / प्रविहाय-सन्त्यज्य / प्रयान्त्याः -पलायमानायाः / श्रियः-लक्ष्म्याः , शोभाया वा / चक्रेण-रथाङ्गेन / तु-पादपूरणे / हंसकपमानभःसरस्या:-नभः आकाशमेव सरसी पद्माकरो, नभःसरसी, "मयूरव्यंसकादित्वात् समासः हंस एव हंसकः स्वार्थे 'क' प्रत्ययः, तस्य प्रभा कान्तिः हंसकप्रभा, हंससम्बन्धिनी कान्तिरित्यर्थः, तया संवलिता सा चासो नभःसरसी, हंसकप्रभानभासरसी तस्यास्तथा, शाकपार्थिवादेराकृतिगणत्वात्' 'मयूरव्यंसकादित्वात् मध्यमपदलोपी समासः / धनपुष्करोदय:-पुष्कराणां कमलानामुदयः समुत्पत्तिः पुष्करोदयः, घनः सान्द्रश्च पुष्करोदयः, पनपुष्करोदयः / अधायि-धृतः / / 6 / / सुरैः कृताऽऽजानुपर्द मणीवकः, सुगन्धिभिवृष्टिरिहालिमालया। चलत्पदाम्भोरुहनूपुरोपमा, समादधे स्मेरदृशां विशां पथि // 63 //