________________ 288 ] श्रीजैननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे पतगाग्रहात् , स्वशब्दितः, वा, अमिलोल':, अन्यम् , इव, तम् , नृपम् , अभ्यमन्त्रयत् // 59 // वृत्तिः-प्रभौ-भगवति विभौ / पुरे–नगरे / वा-अथवा / वने-कानने / समवामृतेअधिगतसमवसरणे / सतीति शेषः / सुरैः-देवैः / निर्मितम्-विरचितम् / अम्बुभिः-सलिलैः / भृतम्-पूर्णम् / सर:-कासारः, पद्माकर इति यावत् / पतगाग्रहात्-पतगाना पक्षिणाम् , अग्रहःग्रहणाभावः, पतगाग्रह स्तस्माद्धेतोः / यद्वा-पतगानां पक्षिणामाग्रहः पतगाग्रहस्तस्मादिव / स्वशब्दितैः-स्वीयशब्दैः / वा-इव / ऊर्मिलोलैः-ऊर्मयस्तरङ्गा लोलाश्चञ्चला इव ऊर्मिलोलास्तैस्तथा। अन्यम्-परम् / इव-यथा / तम्-प्रसिद्धम् / नृपम्-राजानम् / अभ्यमन्त्रयत-स्वसमीपमागन्तुमामन्त्रयत् / / 59 // जलं हि साङ्गकिल गाङ्गभगिना-मपुण्ययोगाद् नहि पुण्यमिष्यते। . सरस्तदम्भोग्रहदम्भसम्भवं, न्यवारयद् वारिरहेः करैरिव // 60 // अन्वयः-हि, अङ्गिनाम्, अपुण्ययोगात् , साङ्गम् , किल, गाङ्गम् , जलम् , पुण्यम् , नहि, इष्यते, (अतः) सरः, वारिरुहै, इव, करैः, तदम्भोग्रहदम्भसम्भवम् , न्यवारयत् // 60 // वृतिः-ह-निश्चयेन / अङ्गिनाम्-अङ्गं तदाख्यदेशो निवासत्वेनास्त्येषामिति अङ्गिनोऽङ्गदेशवास्तव्यास्तेषान्तथा, "अतोऽनेकस्वरात्" 7 / 2 / 6 // इत्यनेन मत्वर्थे- 'इन्' प्रत्ययः / अपुण्ययोगात-न पुण्यं धर्मोऽपुण्यम् पुण्याभावस्तेन योगः सम्बन्धोऽपुण्ययोगस्तस्मात्तथा / साङ्गमअङ्गैरवयवैः सहितं साङ्गम् / यद्वा-अङ्गेन तदाख्यदेशेन सहितं साङ्गम् / तथा चाभियुक्ताः “अङ्गबङ्गकलिङ्गेषु सौराष्ट्रमागधेषु चा तीर्थयात्रा विना गच्छन् पुनः संस्कारमहति" इति / एतावतैव चाङ्गदेशवासिनामपुण्ययोगः प्रतिभाति / किल-किलेति सम्भावनायामव्ययम् / गाङ्गम्-गङ्गाया भागीरथ्या इदं गाङ्गम् , गङ्गासम्बन्धीति यावत् / जलम्-सलिलम् / पुण्यम्-पवित्रम् / नहि-नैव / इष्यतेइच्छाविषयीक्रियते / (अतः) सर:-देवनिर्मितः कासारः / वारिसहैः-वारिणि-जले, रोहन्त्युत्पद्यन्ते इति वारिरुहाणि कमलानि तैस्तथा / इव-यथा / करैः-हस्तैः / तदम्भोग्रहदम्भसम्भवम्-तस्या गङ्गाया, अम्भो जलम् तदम्भः, तस्य ग्रहो प्रहणम् तदम्भोग्रहः, स पुण्यमित्येवं दम्भो-व्याजः, कपट इति यावत् , तदम्भोग्रहदम्भस्तस्य सम्भवः सम्भावना तन्तथा / अपीति शेषः / न्यवारयत्दूरीकृतवान् // 30 // पतत्त्रिणा तद् रुचिरेण वञ्चित, न राजहंसेन पदानुरागिणा / न लक्षणैः श्रीकमलाकरैः परैः, सरोऽरुचच्चारु विभोः पदश्रिया // 6 //