________________ -आचार्यविजयामृतसूरीश्वरकृतायां विद्वदिनोदिन्यां पञ्चमः सर्गः [ 287 अन्वयः-स्वत:, कभमपि, अतः, विमोचितात्मा, ससम्भ्रमोत्पातिपतत्कुलाकुलम् , कुलायम् , आस्थाय, जिनोपदेशतः, व्रतम् , स्मरन् , प्रासुकभुक्तिभाक् , अभूत् // 17 // वृत्तिः-स्वतः-आत्मना, स्वयमेवेत्यर्थः / कथमपि-केनापि प्रकारेण / अत:-अस्मात् , महदादिभूतसर्गादिति यावत् / विमोचितात्मा-विमोचितः पृथक्कृतः आत्मा आत्मतत्त्वं येन स तथा। ससम्भ्रमोत्पातिपतस्कुलाकुलम्-संभ्रमेण भयेन सहितं यथा स्यात्तथा उत्पातिनामुत्पतनशीलाना पता पहिणां कुलेन समूहेन आकुलो व्याप्तः ससंभ्रमोत्पातिपतत्कुलाकुलस्तन्तथा / कुलायम्-कोलन्त्यनेति कुलायो-नीडस्तन्तथा / आस्थाय-निवासस्थलत्वेनाङ्गीकृत्येत्यर्थः / जिनोपदेशत:-जिनस्य भगवतो जिनेश्वरस्य उपदेशो देशना जिनोपदेशस्तस्मात्तथा / व्रतम्-नियमम् / स्मरन्-स्मृतिपथमानयन् / प्रासुकरक्तिभाक-प्रासुकमुक्तिं भजते सेवते इति प्रासुकमुक्तिभाक् अचिचभोजीति यावत् / अभूव-अभवत् जिनवरप्रवचनमाकार्य पक्षिभिरपि प्रतमङ्गीकृतमिति // 5 // मृगः शगालादिररण्यजः परः, सरः प्रपद्योत्कतयाऽनुकम्प्रताम् / विचारयन निर्भरमप्यपादपा-मचित्तमाहावगत स्वतन्त्रधीः // 50 // अन्वयः परः, अरण्यजः, शृगालादिः, मृगः, सरः, प्रपद्य, उत्कतया, अनुकम्प्रताम् , विचारयन् , स्वतन्त्रधीः, निर्भरम् , अपाम् , आहावगतम् , अचित्तम् , अपात् // 58 // पति:-पर:-अन्यः / अरण्यजः-अरण्ये कानने जासोऽरण्यजः / अगालादि:-शृगालोजम्बुक आदिः प्रधानं यस्मिन् स शृगालादिः। मृगः-पशुः / सर:-कासारम्, पद्माकरम् इति यावत् / प्रपत्र-सम्प्राप्य / उत्कतया-उन्मनस्तया, उत्कण्ठितत्वेनेति यावत् / अनुकम्प्रताम्-अनुकम्पाम् / विचारयन्-विमृशन् / स्वतन्त्रधी:-परिणतबुद्धिः, दृढबुद्धिरिति यावत् / निर्भरम्-अत्यन्तम् / अपाम्-जलानाम् / आहावगतम्-आहूयन्ते पशवः पानाय अस्मिन्नित्याहावः निपानम् , तं गतं प्राप्तम् आहावगतम् तत्तथा 'आहावस्तु निपानं स्यादुपकूपे 4 / 158 / इत्यभि० चि० / अचिंत्तम्-चैतन्यशक्तिविरहितम् , तथाविधशखाद्याघाततो निर्धारितकालानन्तरचेतनाशक्तिनाशस्याङ्गीकृतत्वात् / ' अपात्-अपिबत् // 18 // पुरे वने वा समवासृते प्रभो, सरस्सुरैनिर्मितमम्बुभिर्भूतम् / तमूर्मिलोलैः पतगाग्रहाद् नृपं, स्वशब्दितैर्वान्यमिवाभ्यमन्त्रयत् // 59 // अन्वय:--मभो, पुरे, बा, बने, समवास्ते, (ससि)-सुरे, निर्मितम् , अम्बुभिः, भृतम् , सरः,