________________ 286 ] भीजननववीयमहाकाव्ये श्रीशान्तिनावचरित्र अन्वयः-प्रमोः, गिरा, अन्ताप्रतिबुद्धमानसः, खगः, विरुत्य, उड्डयने, वा, मृगः, अगजः, मतङ्गजा, अपि, गती, निराशताम् , प्रपद्य, प्रणमन् , सघा, वनम् , ययौ // 55 // प्रत्तिः-प्रमो:-भगवतः शान्तिनाथस्य / गिरा-उपदेशात्मकवचनेन / अन्तःप्रतिबुद्धमानस:-अन्तः-अभ्यन्तरे प्रतिबुद्ध-समुद्बुद्धं, मानसं-हृदयं यस्य स तथा / खगः-खे आकाशे गच्छतीति खगः पक्षी / विरुत्य-शब्दं विधाय / उड्यने-उत्प्लवने / वा-अथवा / मृगःहरिणः / अगलः-गजातिरिक्त पशुमात्रं वा, अग्रे अगजमतङ्गजस्य निर्देशात् / अगजः-न गच्छन्तीति अगाः पर्वतास्तेषु जातोऽगजः पर्वतीयः / मतङ्गजः-मतङ्गाव-तन्नामकमुनेर्जातो मतङ्गजो हस्ती / अपि-समुच्चये / गतौ-गमने / निराशताम्-निर्लोभताम् , आशाराहित्यमिति यावत् / यद्वा अशनमाशः निर्गत आशात् निराशस्तस्य भावस्ता तथा उपवासमिति यावत् / प्रपद्यः-स्वीकृत्य / प्रणमन्-प्रणाणं कुर्वन् / सद्यः-तत्क्षणे / वनम्-काननम् / ययौ-गतवान् / वयोगणः सुव्रतभाग निशाशन, निरस्य जीवान्तकबन्धनेऽप्यहो। न तत्प्रदत्तं फलमादिताऽऽनने, करौ निरोधुर्दशति स्म केवलम् // 56 // अन्वयः--अहो !, सुव्रतभाक्, वयोगणः, जीवान्तकबन्धने, अपि, निशाशनम् , निरस्य, तत्प्रदत्तम् , फलम् , न, दशति, केवलम् , आदितानने, निरोद्धः, करौ, दशति स्म // 56 // वृतिः-अहो !-वितर्के आश्चर्ये, वा, अध्ययम् / सुबतभाक्-सु-सुष्ठु समीचोनं, व्रतं-नियमः, सुव्रतम्, तद् भजतीति सुव्रतभाक् / वयोगणः-वयसा-पक्षिणां गणः समूहो वयोगणः, विहगकदम्बकमिति भावः / जीवान्तकबन्धने-जीवान्तकानां-व्याधानां बन्धन-पश्निबन्धनयन्त्रविशेषो जीवान्तकबन्धनम् , तस्मिंस्तथा / अपि-सम्भावनायाम् / निशाशनम्-रात्रिभोजनम् / निरस्य-दूरीकृत्य, सन्त्यज्येति यावत् / तत्प्रदत्तम्-तैाधैः प्रदत्तं-वितरीतम् , तत्प्रदत्तम् / फलम्प्रसवम् / न-नहि / दशति-खण्डयति / केवलम्-परम् / आदितानने-आदितं-व्यादितं च तदाननं मुखम् , आदिताऽऽननम् तस्मिँस्तथा / निरोधः-अवरोधकस्य, बन्धनयन्त्राच्छिद्रावरोधकस्येति यावत् / करौ-हस्तौ / दशति स्म-अखण्डयत् / इयं पक्षिजातिः एवन स्वभावोक्तिरलङ्कारः // 56 // ससम्भ्रमोत्पातिपतत्कुलाकुलं, विमोचितात्मा कथमप्यतः स्वतः / . कुलायमास्थाय जिनोपदेशतः, स्मरन व्रतं प्रासुकभुक्तिभागभूत् // 57 //