________________ -आचार्यविजयामृतसूरीश्वरकृत्तायां वितद्विनोदिन्यां पञ्चमः सर्गः [ 285 तदात्तमात्मानमवेत्य संभ्रमाद्, मदादिनाऽमर्थकृताऽऽप्तवाक्यतः। जराजनुर्मृत्युमुमुक्षणा नृणां, गणेन दीक्षा जगृहेऽगृहेप्सुना // 53 // अन्वयः-तदा, मदादिना, आत्तम् , आत्मानम् , अवेत्य, आप्तवाक्यतः, संभ्रमात् , अनर्थकृता, जराजनुभृत्युमुमुक्षणा, अगृहेप्सुना, नृणाम् , गणेन, दीक्षा, जगृहे // 53 // वृत्तिः-तदा-तस्मिन् समये / मदादिना-गर्वादिना / आत्तम्-गृहीतम् व्याप्तमिति यावत् / आत्मानम्-मनः / अवेत्य-विज्ञाय / आप्तवाक्यतः-आप्तस्य निरुपाधिपरदुःखप्रहाणेच्छस्य, यद्वाअनुभवेन वस्तुतत्त्वस्य कास्न्येन निश्चयवान् रागादिवशादपि नान्यथा वादी यः स आप्तस्तस्य तथा, वाक्यम् , वाक्यमुपदेशात्मकपदकदम्बकम् आप्तवाक्यम् तस्मात्तथा। संभ्रमाव-वेगेन / अनर्थकृताअनर्थच्छेद केन, पापनाशतत्परेणेति यावत्। जराजनुमत्यमुमुक्षुणा-जरा वार्द्धक्यं च जनुजन्म च मृत्युर्मरणञ्च जराजनुम॒त्यवस्तेभ्यो मुमुक्षुर्मोक्तुमिच्छुलराजनुर्मृत्युमुमुक्षुस्तेन तथा / अगृहेप्सुनागृहसम्बन्धिलिप्साशून्येन / नृणाम-जनानाम् / गणेन-समूहेन / दीक्षा-भागवती दीक्षेत्यर्थः / जगृहे-अग्राहिं, गृहीतेति यावत् // 53 // पतङ्गवत् कश्चन सद्मपञ्जरात् , पुनः पुनः प्रायसदुस्लवाय सः। स्वकर्मसंलीनतया मलीनधी-गृहे व्रतान्येव बभार भारमुक् // 54 // अन्वयः--कश्चन, पतङ्गवत् , सद्मपजरात्, उत्प्लवाय, पुनः पुनः, प्रायसत् , स्वकर्मसंलीनतया, मलीनधीः, सः, मारमुक, (सन् ) गृहे, व्रतानि, एव, बभार // 54 // . वृत्तिः-कश्चन-अनिर्दिष्टनामधेयः कोऽपि / पतङ्गवत-सूर्यवद, पक्षिवद्वा / सद्मपञ्जरात्-सद्म-सदन, पञ्जरं पञ्जरिकेव, सद्मपञ्जरम् , “उपमेयं व्याघ्राद्यैः साम्यानुक्तौ / " 3 / 1 102 / / इत्यनेनोपमितसमासः तस्मात्तथा / उत्प्लवाय-उद्गन्तुम् / पुनःपुनः-मुहुर्मुहुः, अनेकश इति यावत् / प्रायसत्-प्रायतत, प्रयत्नमकरोदिति यावत् / स्वकर्मसंलीनतया-स्वस्य आत्मनः, कर्माणि शुभाशुभदृष्टविशेषाः स्वकर्माणि तेषु संलीनता संसर्गाधिक्यम् , स्वकर्मसंलीनता तया तथा / मलीनधी:मलीना मलिना धीर्बुद्धिर्यस्य स तथा / संकुचिबुद्धिरिति भावः / सः-प्रसिद्धः / कश्चिदिति शेषः / भारमुक्-भारं कुटुम्बभारं मुञ्चति त्यजतीति भारमुक् / त्यक्तनिजकुटुम्बभारः सन्निति यावत् / गृहेसदने / व्रतानि-नियमान् , संयमान, वा / एव-अवधारणार्थकमव्ययम् / बभार-पुपोष / / 54 / / प्रभोगिरान्तःप्रतिबुद्धमानसः, खगो मृगो योऽप्यगजो मतङ्गजः / .. गतौ बिरुत्योड्डयने निराशतां, प्रपद्य सद्यः प्रणमन् ययो वनम् // 55 //