________________ 284 ] श्रीजननवधीयमहाकाव्ये श्रीशान्तिनाथचरित्र सिनं गृहीतवामनावतारं विष्णुं विडम्बयति, अनुकरोति जयतीति वा तच्छीला बलिध्वंसिविडम्बिनी तान्तथा / कृष्णजित्वरीमिति भावः / तनम्-शरीरम् / किम्-वितर्क, प्रश्ने वा। न-नहि / धर्ताधारकः / अपि तु धर्तेवेति भावः / अयं भावः, यथा यः त्रिविक्रमो विष्णुररिष्टबलं पिनष्टि सकृपाणिनां खगधारिणां प्रभुः चक्रपाणिः बलिध्वंसिविडम्बिना तनं बलिध्वंसकारिणां मनोहारिणी तनू धर्ता तथा भगवान् शान्तिनाथोऽपीति, अर्थस्तरीत्याऽनुसन्धेय इति // 50 // पुरा व्रते तीव्रतयेव केवलात्, तपाकलाश्रान्तनितान्तशान्तधीः। उपेतपार्श्वश्चरणेन मौनिना, मृषा चकारेष तृषां वृषार्चितः // 51 // अन्वयः--केवलात्, पुरा, व्रते, तीव्रतया, एव, तपःकलाऽऽश्रान्तनितान्तशान्तीः , मौनिना, चरणेन, उपेतपावः, वृषार्चितः, एषः, तृषाम् , मृषा, चकार // 51 // / ___ वृत्तिः केवलात-केवलज्ञानात् / (पुरा-पूर्वम् ) व्रते-तपःसंयमादिनियमे / तीव्रतयातीव्रस्य तीक्ष्णस्य भावस्तीव्रता तया तथा / एव-अवधारणार्थकमव्ययम् / तपाकलाऽश्रान्तनितान्तशान्तधी:-तपःकलया तपस्याकौशलेन, आश्रान्त-सततं, नितान्तमतिशयितं यथा स्यात्तथा शान्ता शान्तिमापन्ना धीर्बुद्धिर्यस्य स तथा / मौनिना-निःशब्देन / चरणेन-पादेन, गमनेन वा / उपेतपावः-उपेतः प्राप्तः पावः प्रमुसामीप्यं येन स तथा। वृषार्चितः-वृषेण धर्मेण अर्चितो विशिष्टः पूजितो वा वृषार्चित इन्द्रः / एषः-अयम / तृषाम्-तृष्णाम् / मृषा-मिध्या। चकार-कृतवान् // 51 // यतोऽतिदूरादपि ताप्यते वपु-ईशो शोलासिदशापि नाप्यते / तमहंतः सन्निधिनाप्तसौहृद, नृपः पतङ्गसमधत्त पाणिना // 52 // अन्वयः-अतिदूगत् , अपि, यतः, वपुः, ताप्यते, अपि, दृशोः, भृशोल्लासिदशा, न, आप्यते, अर्हतः, सन्निधिना, आप्तसौहृदम् , तम् , पतङ्गम् , नृपः, पाणिना, समधत्त // 52 // वृत्तिः-अतिदुरात्-अत्यन्तविप्रकृष्टतः / अपि-सम्भावनायाम् / यतः-यस्मात् / वपुःशरीरम् / ताप्यते-सन्ताप्यते, सन्दह्यते इति यावत् / अपि-समुच्चये / दृशा:-नेत्रयोः / भृशाल्लासिदशा-भृशमत्यर्थमुल्लसितु सुशोभितु शीलमस्या इति भृशोल्लासिनी, भृशोल्लासिनी चासौ दशाऽवस्था भृशोल्लासिदशा / न-नहि / आप्यते-प्राप्यते / यदीयकिरणाधिकसंसर्गतो नेत्रे अपि प्रभाहीने भवत इति भावः / अहंत:-जिनेश्वरस्य / सन्निधिना-सान्निध्येन / आप्तसौहृदम्-अधिगतसख्यम् / तम्-प्रसिद्धम् / पतङ्गम्-सूर्यम् / नृपः-भूचरो राजापि / पाणिना-करेण / समधत्तधृतवान् ||52 //