________________ 280 ] श्रीजननंषधीयमहाकाव्ये श्रीशान्तिनाषचरित्र जनापरपर्य्यायेण सहितः सचामरस्तन्तथा / च-पुनः / अमरमानसे -अमराणां देवानां मानसमन्तःकरणममरमानसम् तस्मिंस्तथा / प्रियम्-हृद्यम् / बिद्रमदण्डमण्डितम्-विद्रुमस्य प्रवालस्य दण्डो पष्टिविद्रुमदण्डस्तेन मण्डितो -भूषितो विद्रुमदण्डमण्डितस्तन्तथा / तम्-प्रभुसेवासाधकत्वेन प्रसिद्धमित्यर्थः / पवित्रहस्तम्-पविना वप्रेण त्रायते रक्षति देवान् आत्मानं वा, पवित्रो वनपाणिरिन्द्र इति यावत् / यद्वा-पविर्वजं त्रायते इति पवित्र इन्द्रस्तस्य हस्तः करः पवित्रहस्तस्तन्तथा / पण्डित:सदसद्विवेकवती बुद्धिः पंडा साऽस्त्यस्येति पण्डितः, “तदस्य सञ्जातं तारकादिभ्य इतः” 7 / 1 / 138 // इत्यनेन 'इतः' प्रत्ययः / शुचिम्-पवित्रम् / शुद्धमिति यावत् / एव-अवधारणार्थंकमव्ययम् / अबुद्धव्यजानात् , अवागमदिति यावत् // 43 // चकार कश्चिद् वरणत्रयों न किं, सुरश्च सिंहासनमर्हतः पुरः। .. परो महेन्द्रध्वजमाप्तभक्तये सपीतमम्भ प्रभुचामरञ्च किम् // 44 // अन्वयः-कश्चित् , सुरः, अर्हता, पुरः, सिंहासनम् , च, वरणत्रयीम्, किम् , न, चकार, पर, आप्तभक्तये, सपीतम्, अम्भाप्रभुचामरम्, इव, महेन्द्रध्वजम् , च, किम्, न, (चकार) // 44 // वृतिः -कश्चित-अनिर्दिष्टनामधेयः कोऽपि / सुर:-देवविशेषः / अर्हता-जिनेश्वरस्व, भगवतः-शान्तिनाथस्येति यावत् / पुर:-पुरस्तात् अने इति यावद / सिंहासनम्-सिंहोपलक्षितमासनं सिंहासनम् , स्वर्णमयभद्रासनमिति यावत् / च-पुनः / वरणत्रयीम्-प्राकारत्रयम् / किम्प्रश्नार्थकमव्ययम् / न-नहि / चकार-कृतवान् / अपि तु कृतवानेवेति भावः / पर:-अन्यः / सुर इति शेषः / आतभक्तये-आप्तस्य यथार्थवकुभंगवतः शान्तिनाथस्येति यावत् / मक्ति सेवा, शुभषेति यावत् आप्तभक्तिस्तस्यै तथा। सपीतम्-पीतवर्णसहितम् / अम्माप्रभुचामरम्-अम्भसा जलाना प्रमुरम्भःप्रमुवरुणस्तस्य चामरः व्यजनम् , अम्भाप्रमुचामरस्तन्तथा / (इव-यथा) महेन्द्रध्वजम्-महेन्द्रस्य देवेन्द्रस्य ध्वजः पताका महेन्द्रग्वजस्तन्तथा / च-पुनः / किम्-प्रश्नार्थकमव्ययम् / न-नहि / चकार-कृतवान् / अपि तु कृतवानेवेति भावः॥४४॥ कृतावरोहस्य हयादुपानही, विनेयुषस्तत्र बलद्विपस्तदा / नियोगतस्ताः सुमनःपरम्पराः, परागपूर्णा ववृषुर्विकस्वराः॥४५॥ अन्वयः-तत्र, तदा, हयात् , कृतावरोहस्य, उपानहीं, विनेयुषः, बलदिषः, नियोगतः, सुमन:परम्पराः, विकस्वराः, परागपूर्णाः, ता, पवृषुः /