________________ -आचार्यविजयासूरीश्वरकृतायां विद्वद्विनोदिन्यां पञ्चमः सर्गः [ 279 नेन, निर्जिता निःशेषेण जिता पराभूतेति यावत्, प्रभा कान्तिर्यस्य तत्तथा / त्रिदशैः-देवैः / प्रयुज्यमानम्-प्रेय्यमाणम् / प्रभुप्रभावात्-प्रभोः शान्तिनाथस्य प्रभावोऽनुभावः, प्रभुप्रभावस्तस्मात्तथा। बहुकाश्चनाश्चितम्-बहूनि च तानि काश्चनानि, किञ्जल्का बहुकाञ्चनानि, तैरश्चितम् विशिष्टम् , बहुकाश्चनाश्चितम् / धृतातपत्नत्रयम्-धृतश्च तत् आतपत्त्रत्रयम् धृतातपत्नत्रयम् , तस्य रूपम् स्वरूपमिव रूपं यस्य तत्तथा / "उष्ट्रमुखादयः" 3 / 1 / 23 // इत्यनेनोपमानसमानस्य रूपशब्दस्य लोपो, बहुव्रीहिसमासश्च निपात्यते / सरोरुहम्-कमलम् / आबभौ-शुशुभे // 41 // उपात्तलक्ष्मि प्रभुवक्त्रपाणिना, ह्रियाऽऽनतं काञ्चनमम्बुजन्म किम् / तमुच्छितच्छत्रमिषेण दण्डभृद् निषेवते स्मादृतमुक्तसम्पदा // 42 // अन्वयः-प्रभुवक्त्रपाणिना, उपात्तलक्ष्मि, हिया, आनतम् , काञ्चनम् , अम्बुजन्म, उच्छितच्छत्रमिषेण, दण्डमृत् , (सत् ) आहतम् , उक्तसम्पदा, तम् , निषेवते, स्म, किम् // 42 // __ वृत्तिः-प्रभुवक्त्रपाणिना-वक्त्र-मुखञ्च, पाणी-हस्तौ च वक्त्रपाणि, 'प्राण्यङ्गत्वादेकवद्भावः' प्रभोः-शान्तिनाथस्य वक्त्रपाणि प्रभुवक्त्रपाणि तेन तथा / उपात्तलक्ष्मि-उपात्ता-प्राप्ता, लक्ष्मीःशोभा येन तत्तथा / ह्रिया-लज्जया। आनतम्-सर्वतोभावेन नम्रम् / काञ्चनम्-सौवर्णम् / अम्बुजन्म-अम्बुनो जलात् जन्मोत्पत्तिर्यस्य तत्तथा / कमलमित्यर्थः। उच्छितच्छत्रमिषेण-उच्छ्रितं विशालञ्च तच्छत्रमातपत्रम् उक्तिच्छत्रम् तस्य मिषं व्याजः उच्छ्रितच्छत्रमिषन्तेन तथा / दण्डभृत्-दण्ड छत्रदण्डं बिभर्ति धारयतीति दण्डभृत् , दण्डधारकं सत् / आहतम्-सत्कृतम् / उक्तसम्पदा-उक्ताकथिता, चासो सम्पत्-सम्पत्तिरुक्तसम्पत् , तया तथा / तम्-भगवन्तं शान्ति नाथमित्यर्थः / निषेवते स्म-न्यसेवत, शुश्रुषते स्मेति यावत् / किम्-उत्प्रेक्षायाम् // 42 // अहर्निशं सेवनया विभोर्द्विधा, सचामरं चामरमानसे प्रियम् / अबुद्ध तं विद्रुमदण्डमण्डितं, पवित्रहस्तं शुचिमेव पण्डितः // 43 // अन्वयः--अहर्निशम् , विभोः, सेवनया, द्विधा, सचामरम् , प, अमरमानसे, प्रियम् , बिद्रुमदण्डमण्डितम , तम , पवित्रहस्तम् , पण्डितः, शुचिम , एव, अबुद्ध // 43 // वृत्तिः-अहर्निशम-रात्रिन्दिवम् / विभोः-प्रभोः श्रीशान्तिनाथस्य / सेवनया-शुश्रषया, .. परिचर्ययेति यावत् / द्विधा-द्वाभ्यां प्रकाराभ्यां द्विधा, प्रकारद्वयेनेत्यर्थः / सचामरम्-चामरेण व्य