________________ 278 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे वृत्तिः-तिर्यगावर्जितकन्धरः-तिर्यगावर्जिता नम्रीकृता कंधरा ग्रीवा येन स तथा / शिरःप्रणामकृत्-शिरसा मस्तकेन प्रणामः प्रकृष्टनमस्कारः शिरःप्रणामः, तं करोतोति तथा / सःप्रमुसन्निधिवर्तितयाऽतिप्रसिद्धः / देवगणः-सुरसमुदायः / तदा-तस्मिन् समये / उच्चैः-अतिशयेन / नमने-नम्रीभावे / समम्-तुल्यं यथास्यात्तथा / पुनः-किञ्च / प्रपञ्चने-अङ्गविस्तारणे / संवरणेअङ्गसङ्कोचने / तथा-पुनः / आसने-उपवेशने / समम्-तुल्यं यथास्यात्तथा / नटन्-नृत्यन् / नृत्यं विदधदिति यावत् / बभौ-शुशुभे / / 39 / / स हंसदेवोऽपि विभोर्गुणावली-निबद्धबुद्धिः समुपेत्य नृत्यकृत् / विशिष्टभक्तीर्बहुधा स्थितोऽन्तरे, विधाय पक्षण रतक्लमालसः // 40 // अन्वयः-विभोः, गुणावलीनिबद्धबुद्धिः, समुपेत्य, नृत्यकृत् , रतकलमालसः, सः, हं सदेवः, अपि, बहुधा, पक्षेण, विशिष्टभक्तीः, विधाय, अन्तरे, स्थितः // 40 // वृत्तिः-विभोः-प्रभोः, भगवतः शान्तिनाथस्येति यावत् / गुणाबलीनिवद्धबुद्धिः-गुणावल्या शौर्यवीयंगाम्भीर्यौदार्यकेवलित्वादिगुणश्रेण्या, निबद्धा समाकृष्ठा बुद्धि नं मतिर्वा यस्य स तथा / समुपेत्य-समुपलभ्य / तत्स्थानमिति शेषः / नृत्यकृत-नृत्यं नतनं, कृतवानिति तथा / विहितनृत्य इति यावत् / रतक्लमालसः-रतं नाटकरमणम् , तस्य क्लमः क्लान्तिः खेद इति यावत्। रतक्लमस्तेन अलस आलस्यवान् , कायिकचेष्टाविहीनप्राय इति यावत् तथा / सः-प्रसिद्धः / हंसदेवः-देवस्य जीव. प्रदेशनिर्गतो हंसो हंसदेवः “राजदन्तादित्वात् पूर्वनिपाताहस्य देवशब्दस्य परनिपातः” "मयूरव्यंसकादित्वात् शाकपार्थिवादेराकृतगणत्वात् मध्यमपदलोपी समासश्चेति द्रष्टव्यम् / अपि-सम्भावनायाम् / बहधा-अनेकशः / पक्षण-पतत्त्रेण / विशिष्टभक्ती:-विशिष्टा विलक्षणाश्च ता भक्तयः शुश्रूषा विशिष्टभक्तयस्तास्तथा / विधाय-सम्पाद्य, कृत्वेति यावत् / अन्तरे-मध्ये / स्थितः-अतिष्ठत्, स्थितवानिति यावत् // 4 // सनालमात्मानननिर्जितप्रभ, प्रयुज्यमानं त्रिदशैः सरोरुहम् / धृतातपत्त्रत्रयरूपमाबभो, प्रभुप्रभावाद् बहुकाञ्चनाञ्चितम् // 41 // अन्वयः-सनालम् , आत्मानननिर्जितप्रभम् , त्रिदशैः, प्रयुज्यमानम् , प्रभुप्रभावात् , बहुकाम्चनाम्बितम, घृतातपत्त्रत्रयरूपम् , सरोरुहम् , आवभौ // 41 // वृत्तिः-सनालम्-नालसहितम् / आत्मानननिर्जितप्रभम्-आत्मनः-स्वस्य, आननेन-वद