________________ पाचार्यविजयामृतसूरीश्वरकृतायां विद्वदिनोदिन्यां पश्वमः सर्गः / [277 माश्रित्य / एकतालयम्-एकताया एकाग्रचित्ताया थालयो निवासः आधार इति यावत् , एकतालयस्तन्तथा / लयम्-लीयत अात्माऽत्रेति लयः, समाधिस्तन्तथा / धीरतया-धैर्येण / धरन्-अवलम्बमानः / सः-भगवान् शान्तिनाथ इति यावत् / शुचिपोषपक्षजे-पौषस्य तदाख्यमासस्य पक्षः पञ्चदशदिनात्मकः पक्षः पौषपक्षः, शुचिः-शुक्लश्चासौ पौषपक्षः शुचिपौषपक्षस्तस्माज्जातः शुचिपौषपक्षजस्तस्मिंस्तथा / अत्र तिथौ नवम्यामिति दर्शनात् तिथिशब्दस्य त्रीलिङ्गतया तदर्थविशेषणतया शुचिपौषपाज इत्यत्रापि त्रीलिङ्गत्वमेवोचितम. एवञ्चच्छन्दोभङ्ग इति चेत्-सत्यम् / 'तिथिः पुनः कर्मवाटी २-६१-इत्यभि० चि० स्वोपज्ञटीकायां तन्यते। तिथिः पुंस्त्रीलिङ्ग-"तनेर्डित्" उणा० 674 इति इथिः इति दर्शनेन तिथिशब्दस्य पुंल्लिङ्गत्वस्यापि बोधनादिति / नवम्याम्-नवाना पुरणी नवमी तस्यान्तथा / तिथौ-कर्मवाट्याम् नवमीदिन इति यावत् / उज्ज्वलम-दीप्तम् , विशदम् , विकाशि वा। केवलबोधम्-आत्मनः केवलित्वसम्पादकं तदाख्यज्ञानम् / शिश्रिये-प्राप, अवललम्बे इति यावत् // 37 // तदुत्सवे कोऽपि जनः सुरो नवा, तदा निदद्रावुपपल्वलं खगः / सुगन्धिवृष्टेरनु दिव्यनाटक--प्रवर्तनेत्राप्सरसाप्तनर्तने // 38 // अन्वयः-तदा, तदुत्सवे, सुगन्धिवृष्टेः, अनु, अत्र, अप्सरसाप्तनर्तने, दिव्यनाटकप्रवर्तने, का, अपि, जनः, सुरः, उपपल्वलम् , खगः, वा, न, निदद्रौ // 38 // - वृत्तिः-तदा-तस्मिन् समये / तदुत्सवे-केबलबोधप्राप्तिनिमित्तकमहसि / सुगन्धिषष्टे:सुन्दरगन्धवत्पदार्थकर्मकवर्षणात् / अनु-पश्चात् / सुगन्धिवर्षणोत्तरकाले इति भावः / अप्सरसासनर्तने-अप्सरोभिः स्वर्वेश्याभिराप्तं व्याप्तमप्सरसाप्तम् , तच्च तर्तनम् , अप्सरसाप्तनर्तनम् , तस्मिंस्तथा। दिव्यनाटकप्रवर्तने-दिव्यमलौकिकञ्च तन्नाटकं रूपकादि, दिव्यनाटकम् तस्य प्रवर्तनम् दिव्यनाटकप्रबतनम् तस्मिंस्तथा। क:-कश्चित् / अपि-सम्भावनायाम् / जन:-लोकः / सुरः-देवः / उपपन्वलम्पल्वलस्य क्रीडाल्पसरसः-समीपम् उपपल्वलम् / खग:-पक्षी, हंस इति यावत् / वा-अथवा / ननहि / निदद्रौ-निद्रितवान् ||38|| ममं तदोच्चैर्नमने समं पुनः, प्रपञ्चने संवरणे तथाऽऽसने / स तिर्यगावर्जितकन्धरः शिरः, प्रणामकृद् देवगणो नटन् बभौ // 39 // , अन्वयः-तिर्यगावर्जितकन्धरः, शिर:प्रणामकृत् , सः, देवगणः, तदा, उच्चेमने, समम् , पुनः, प्रपञ्चने, संवरणे, तथा, आसने, समम् , नटन् , बभौ // 39 //