________________ 276 ] श्रीननैषधीयमहाकाव्ये श्रीशान्तिनावपरित्र वृत्तिः-मन्दरसुन्दराशय:-मेरुवन्मनोहराभिप्रायः सुराचलसदृशनिष्कम्पमना इति यावत् / स्थिर:-स्थिरतोपेतः / प्रभुः-भगवान् शान्तिनाथः / तपोविधौ-संयमाराधने / कदापि-कस्मॅिबित् समयेऽपि / चञ्चल:-भयविद्रुतः / न-नहि, स्याव-भवेत् / (यत्-यतः) तृणेन-स्वनामख्यातेन / वात्या-वातसमूहः / 'पाशादेश्च ल्यः' / 6 / 2 / 25 // इति ल्यः / इव-यथा। तया-वेधसः स्पृहया / (सः-जिनः) अनुगम्यते-अनुनियते, सा स्पृहाऽर्हतः पश्चाद् धावति न पुनर्जिनस्तामनु इति / तुपुनः / इतरेण-अन्येन साधरणजनेनेति यावत् / एव-नूनम् / भिया-भयेन / कातरक्रिया-कापुकषप्रवृत्तिः, दीनतेति यावत् / अनुगम्यते इति शेषः // 35 // वृते समाधेविधिनाऽऽत्मबोधने, धनेऽपरस्मिन् न मुनेमनोरुचिः। अनात्मलीनस्य मलीनताऽऽहता, जनस्य चित्तेन भृशाऽवशात्मना // 36 // ... अन्वयः-समाधे, विधिना, आत्मबोधने, घृते, अपरस्मिन् , धने, मुनेः, मनोरुचिा, न, अनात्यलीनस्य, जनस्य, भृशावशात्मना, चित्तेन, मलीनता, आदृता // 36 / / वृतिः-समाधेः-सम्यगाधीयते समाधिः, ध्यानमेवार्थमात्राभासनरूपं ध्येयाकारनिर्भासात्मकं ध्येयस्वभावावेशात् , तस्य तथा / विधिना-विधानेन / आत्मबोधने-आत्मतत्त्वज्ञाने / वृतेस्वीकृते / अपरस्मिन्-अन्यस्मिन् / धने-विभवे, वित्त इति यावत् / मुनेः-श्रमणस्य / मनोरुचिःमनसश्चेतसो रुचिरभिलाषो मनोरुचिः / न-नहि / भवतीतिशेषः / अनात्मलीनस्य-न भात्मा अनात्मा, आत्मभिन्नः, अनात्मनि लोनो-अनात्मलीनस्तस्य तथा / जनस्य-लोकस्य / भृशावशात्मनाभृशमत्यर्थभवशः स्वतन्त्रः आत्मा स्वरूपं यस्य तत् भृशावशात्म तेन तथा / चित्तेन-अन्तःकरणेन / मलीनता-मालिन्यम् , मलीमसतेति यावत् / आता-आश्रिता, स्वीकृतेति यावत् / / 3 / / अथावलम्ब्य क्षणमेकपादिकां, धरल्लयं धीरतयकतालयम् / तिथौ नवम्यां शुचिपोषपक्षजे, स शिश्रिये केवलबोधमुज्ज्वलम् // 37 // - अन्वयः-अथ, क्षणम् , एकपादिकाम् , अवलम्ब्य, एकतालयम् , धीरतया, लयम , धरन् , सा, शुचिपोषपक्षजे, नवम्याम् , तिथौ, उज्ज्वलम् , केवलबोधम् , शिश्रिये // 37 // वृत्तिः-अथ-अनन्तरम् / क्षणम्-तदाख्यसूक्ष्मकालविशेषं यावत् / एकपादिकाम्-एकश्चासौ पाद एकपादः, सोऽस्यां स्थितावस्तीति एकपादिका तान्तथा / स्थितिमिति यावत् / अवलम्ब्य