________________ -बाचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां पञ्चमः सर्गः [ 275 अन्वयः-अवश्यभव्येषु, अनवग्रहग्रहा, यत्क्रमानुगा, नृणाम् , मतिः, कामति, तत् , आन्तरम् , द्विषाम् , चक्रम् , अयम् , क्रमात् , समूलम् , उन्मूलयितुम् , प्रचक्र मे // 33 // वृत्तिः-अवश्यभव्येषु-अवश्यं नियमेन भव्याः भवितव्याः शुभाशुभादयोऽवश्यभव्याः तेषु तथा, विषये इति यावत् / अनवग्रहग्रहा-अनवग्रहोऽबाध्यमानो निरर्गलोऽभिनिवेशः प्रसरो यस्याः सा तथा / यत्क्रमानुगा-यस्य आन्तरद्विट्चक्रस्य क्रमानुगा पद्धत्यनुसारिणी तथा / नृणाम्-जनानाम् / मतिः-बुद्धिः / क्रोमति-चलति / तत्-तादृशम् / आन्तरम्-हृदयान्तर्वति / द्विषाम्-शत्रूणाम् , कामक्रोधादीनामिति यावत् / चक्रम्-समूहम् , कदम्बकम् इति यावत् / अयम्-असौ, भगवान् शान्तिनाथ इति यावत् / क्रमात्-क्रमशः / समृलम्-सादिकारणम् / उन्मूलयितुम्-विनाशयितुम् / प्रचक्रमे-प्रववृते // 33 // पटुः पुरस्कृत्य पुराकृताकृति, यया दिशा धावति वेधसः स्पृहा / भवस्य वश्यस्तदवश्यपश्यधीः, प्रवर्ततेऽनर्तितया तयाऽऽतुरः // 34 // अन्वयः--कृतिम् , पुरस्कृत्य, पुराकृता, पटुः, वेधसः, स्पृहा, यया, दिशा, धावति, तदवश्यपश्यधी:, (अपि) तया, आतुरः, भवस्य, वश्यः, अनर्तितया, प्रवर्तते // 34 // वृत्तिः-कृतिम्-यत्नम् , कार्यम् वा / पुरस्कृत्य-समुद्दिश्य, समादृत्य वा / पुराकृता-पुरा पूर्व, कृता-विहिता, पुराकृता / पटुः-साध्वी / वेधसः-कर्मकर्तुः परमेन्द्रस्य-आत्मनः / स्पृहा-वाञ्छा। यया दिशा-येन मार्गेण / धावति-गच्छति / तदवश्यपश्यधी:-तदवश्या-तदनधीना, पश्या-सर्वद्रष्ट्री धी-बुद्धिर्यस्य स तथा / (अपि) भवस्य-संसारस्य, ईशस्य / वश्यः-वशवर्ती / अत एव / आतुरः-व्ययः / जन इति शेषः / अनर्तितया-न-अर्तिः पीडा यस्य सोऽनर्तिः, तस्य भावोऽनर्तिता तया तथा / अनायासेनेति यावत् / तया-वेधः स्पृहाधिष्ठितमार्गेण / प्रवर्तते-प्रचलति / प्रवृत्तो भवतीति यावत् // 34 // तपोविधौ मन्दरसुन्दराशयः, स्थिरः प्रभुः स्यान्न कदापि चञ्चलः / तृणेन वात्येव तयाऽनुगम्यते, भियतरेणैव तु कातरक्रिया // 35 // अन्वय:--मन्दरसुन्दराशया, स्थिरः, प्रभुः, तपोषिधौ, कदापि, पम्पलः, न, स्यात्, (यत् ) . तृणेन, वात्या, इव, तया, (स.) अनुगम्यते, तु, इतरेण, एव, भिया, कातरक्रिया, (भनुगम्यते)।