________________ प्राचार्यविजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां पञ्चमः सर्गः / [281 वृत्तिः-तत्र-देशनाभूमौ / तदा-तस्मिन् समये / हयात-अश्वात् , उच्चैःश्रवस इति यावत्। कृतावरोहस्य-अवतीर्णस्य / उपानहौ-पादत्राणे / विनेयुषः-अपनीतवतः / बलद्विषः-इन्द्रस्य / नियोगतः-आदेशात् / सुमनःपरम्पराः-देवश्रेणयः / 'देवाः सुपर्वसुरनिर्जरदेवतर्मु-बहिर्मुखाऽनिमिपदैवतनाकिलेखाः / वृन्दारकाः सुमनसखिदशा अमाः स्वाहास्वधातुसुवामुज आदितेयाः' 2 / 2 / इत्यभि० चिन्ता० / विकस्वराः-विकसनशीलाः प्रफुल्ला इति यावत् / परागपूर्णाः-परागैः-पुष्परजोमिः पूर्णा व्याप्तास्तास्तथा / ता:-सुमनःपरम्पराः, पुष्पश्रेणीः / 'पुष्पं सूनं सुमनसः, प्रसवश्च मणीवकम्' 4-391 / इत्यमि० चिन्ता० / ववृषु:-अवर्षन् // 45 // सुवर्णपद्मोदरचारचारुतां, ततः पदे रेजतुरस्य बिभ्रती। .. निवेशकल्याणपदं सुसंपदं, सुवर्णसेवामिव धर्तुमुत्सुके // 46 // अन्वयः-ततः, सुवर्णपद्मोदरचारचारुताम् , बिभ्रती, अस्य, पदे, निवेशकल्याणपदम् , सुवर्णसेवाम् , सुसम्पदम् , धर्तुम् , उत्सुके, हव, रेजतुः // 46 // वृत्तिः-ततः-तदनन्तरम् सुमनःकर्तृकविकस्वरपुष्पवर्षणानन्तरमिति यावत् / सुवर्णपद्मोदरचारचारुताम्-सुवर्णस्य काञ्चनस्य पद्मानि कमलानि नवसङ्ख्याकानीति शेषः सुवर्णपद्मानि, तेषां सदरे मध्ये चारो विचरणम् , सुवर्णपद्मोदरचारस्तेन चारुणी सुन्दरे सुवर्णपद्मोदरचारचारुणी, बयोर्भावः, सुवर्णपद्मोदरचारचारुता, तान्तथा / बिभ्रती-धारयन्ती दधतीति यावत् / अस्य-भग बतः शान्तिनाथस्य / पदे-चरणौ 'पदं शब्दे च वाक्ये च, व्यवसायप्रदेशयोः / पादतच्चियोः स्थान• त्राणयोरवस्तुनो' रिति मेदिनी / निवेशकल्याणपदम्-निवेशो भोगश्च कल्याणं मङ्गलश्च निवेशकल्याणे' 'द्वन्द्वतत्पुरुषयोः परवल्लिङ्गत्व नियमात्, तयोः पदमास्पदम् निवेशकल्याणपदम् , तत्तथा / सुवर्णसेवाम्-सुवर्णेन काश्चनेन सेवा शुश्रूषा सुवर्णसेवा तान्तथा, यद्वा-सुष्ठु शोभनश्चासौ वर्णो बशो गुणकथादिः सुवर्णः तेन सेवा भक्तिः सुवर्णसेवा तान्तथा / सुसम्पदम्-सुष्ठु शोभना सम्पत् सम्पत्तिः सुसम्पत् , तान्तथा / धर्तुम्-आदातुम् / उत्सुके-उत्कण्ठिते / इव-यथा / रेजतुःशुशुभाते // 46 // महोत्सवेऽस्मिन्नसुरैः सुरैः ममं, तथैव मैत्री जनसन्निधेरभूत् / तयोः प्रवालैर्वनयोस्तथाम्बुजै-रवापि मोदः सुमनस्तया यथा // 47 // .. ' अन्वयः-अस्मिर, महोत्सने, असुरे, सुरेः, समम् , जनसच्चियः, मैत्री, तथा, श्व, अभूत् ,