________________ 272 ] श्रीजननैषधीयमहाकाव्ये श्रीशान्तिनाथचरित्रे कृताभियोगः स तु योगसङ्गमे, प्रयोगदक्षेण तपोद्विपेन यत् / स्मरार्जितं रागमहीरुहाङ्कुरं, बभञ्ज मूलादनुकूलया धिया // 27 // अन्वयः-तु, योगसङ्गमे, कृताभियोगः, सः, यत् , अनुकूलया, धिया, प्रयोगदक्षेण, तपोद्विपेन, स्मरार्जितम् , रागमहीरुहाङ्करम् , मूलात् , बभञ्ज // 27 // वृत्तिः-तु-पादपूरणे, अवधारणे, प्रशंसायाम् वा / योगसङ्गमे-योगेन, अपूर्वार्थसम्प्राप्तसङ्गमः सम्मिलनं योगसङ्गमस्तस्मिन् तथा / यद्वा-योगस्य चित्तवृत्तिनिरोधस्य सङ्गमः सङ्गतिर्योगसमस्तस्मिंस्तथा / कृताभियोगः-कृतो विहितोऽभियोग उत्साहः अध्यवसायो वा येन स तथा / उत्साहः प्रगल्भता, अभियोगोद्यमौ' इति अभि० चिन्ता० / 3 / 214 // सः-भगवान् शान्तिनाथः / यत-यतः। यस्माद्धेतोरिति यावत् / अनुकूलया-सपक्षया, सिद्धिसम्पादिकयेति यावत् / धियाबुद्धपा / प्रयोगदक्षेण-विधानसमर्थेन / तपोद्विपेन-तप उपवासादिनियमो द्विपो हस्तीव तपोद्विपः, "उपमेयं व्याघ्राद्यैः साम्यानुक्तौ" 3 / 1 / 102 / / इत्यनेनोपमितसमासः / स्मरार्जितम्-स्मरेण कन्दर्पण अर्जितः समुत्पादितः स्मरार्जितस्तन्तथा / रागमहीरुहाङ्करम्-रागोऽनुराग एव महीरुहो वृक्षो रागमहीरुहस्तस्य अङ्कुरोऽङ्करः प्ररोह इति यावत् , रागमहीरुहाङ्कुरस्तन्तथा / मूलात्-समूलम् सनिदानमिति यावत् / बभञ्ज-उदमूलयत् , व्यनाशयदिति यावत् // 27 // विमोहलीलां मिथुनालिपालितां, प्रदर्शयन् हंसमहामना मनः / शशाक नोचालयितुं विरागवान, मिषेण चञ्चोश्चरणद्वयस्य च // 28 // अन्वयः-मिथुनातिपालिताम् , विमोहलीलाम , प्रदर्शयन् , विरागवान् , हंसमहामनाः, चन्यो, च, चरणद्वयस्य, मिषेण, मनः, उच्चालयितुम् , न, शशाक // 28 // वृत्तिः-मिथुनालिपालिताम्-मिथुनानां हंसदम्पतीनामालिः श्रेणी मिथुनालिस्तया पालिता सम्पादिता मिथुनालिपालिता तान्तथा। विमोहलीला-विशेषेण मुह्यन्तीन्द्रियाण्यत्रेति विमोहो-मोहनम् , सुरतमिति यावत् ; तस्य लीला चेष्टा विमोहलीला सुरतचेष्टाविशेषस्तान्तथा / प्रदर्शयन्समवलोकयन् / विरागवान-विगतो रागो विरागः वैराग्यम् सोऽस्त्यस्येति विरागवान् / हंसमहामना:-हंसो महामना महात्मेव तथा। "उपमेयं व्याघ्राद्यैः साम्यानुक्तौ" 3 / 1 / 102 // इत्यनेनोपमितसमासः / चञ्चो:-त्रोट्या, सृपाटिकाया इति यावत् / च-पुनः / चरणद्यस्य-पादयुगलस्य / मिण-व्याजेन / मनः-अन्तःकरणम् / उच्चालयितुम्-अव्यवस्थायितुम् / न-नहि / शशोकसमर्थोऽभवत् IRan