________________ -आचार्य विजयामृतसूरीश्वरकृतायां विद्वद्विनोदिन्यां पञ्चमः सर्गः [ 271 प्रियासु बालासु रतक्षमासु च, ललन्तमेतं चरणानुरागिणम् / विसिष्मये वीक्ष्य नृपो विरुद्धता, निवारिता द्वन्द्वबलेर्हतेत्यसौ // 25 // अन्वयः--बालासु, च, रतक्षमासु, प्रियासु, ललन्तम् , चरणानुरागिणम् , एतम् , वीक्ष्य, अर्हता, द्वन्दबले, विरुद्धता, निवारिता, इति, असौ, नृपः, विसिध्मिये // 25 // वृत्तिः-बालास-अप्राप्तयौवनासु, सुरतकर्माक्षमास्विति यावत् / च-पुनः / रतक्षमासुसुरतसमर्थासु / प्रियासु-बल्लभासु, प्रियतमास्विति यावत् / ललन्तम्-अनुरागवन्तम् / चरणानुरागिणम्-जिनेश्वरंचरणानुरागवन्तम् / यद्वा-चरणेष्वनुरागो लौहित्यं चरणानुरागः सोऽस्त्यस्येति चरणानुरागी, "अतोऽनेकस्वरात्” 7 / 2 // 6 // इत्यनेन मत्वर्थे 'इन्' प्रत्ययः / एतम-समीपतर - वर्तिनम् / “समीतरवर्ति चैतदोरूपम्" इत्यभियुक्तोक्तेः / हंसमित्यर्थः। वीक्ष्य-अवलोक्य / अर्हताजिनेश्वरेण / द्वन्द्वबले-युद्धे / विरुद्धता-विरोधः, परस्परेाभाव इति यावत् / निवारिता-दूरीकृता। इति-एवं, निधायेत्यर्थः / असौ-अयम् / नृपः-राजा, नैषधामिधान इति यावत् / विसिष्मियेविस्मयमवाप्तवान् // 25 / / सितच्छदं तं चरणानुरागिणं, द्विपत्त्रितं पल्लवितं च बिभ्रतम् / विभोर्मनोऽन्तः स्मरमेव भावितुं, सुरेण चक्रे बहुधाऽऽयुधादरः // 26 // अन्वयः-द्विपत्रितम् , च, पल्लवितम् , बिभ्रतम् , सितच्छदम् , चरणानुरागिणम् , तम् , (वीक्ष्य), विभोः, मनोऽन्तः, स्मरम् , भावितुम् . सुरेण, बहुधा, आयुधादरः, चक्रे, एव // 26 // वृत्तिः-द्विपत्रितम-द्विपत्रं सञ्जातमस्मिन्निति द्विपत्त्रितम् , द्विपत्रयुक्तमित्यर्थः / च-पुनः / पल्लवितम्-पल्लवयुक्तम् / सितच्छदम-श्वेतपक्षम् / बिभ्रतम-धारयन्तम् / चरणानुरागिणम-चरणयोः पादयोरनुरागो लौहित्यं चरणानुरागः सोऽस्त्यस्येति चरणानुरागी तन्तथा / अथच-चरणयोःप्रभुचरणकमलयोरनुरागः स्नेहश्वरणानुरागः सोऽस्त्यस्येति चरणानुरागी तन्तथा / तम्-हंसम् / वीक्ष्य स्थितस्येति शेषः / विभोः-प्रभोः शान्तिनाथस्य / मनोऽन्तः-हृदयाभ्यन्तरे / स्मरम्-कन्दर्पम् / भावितुम्-बोधयितुम् समुत्तेजयितुमिति यावत् / सुरेण-प्राग्दर्शितदेवेन / बहुधा-अनेकशः / आयुधादर:-अनमहणाभिलाषः / चक्रे-विदधे / एव-अवधारणार्थकमव्ययम् // 26 //