________________ पाचार्य विजयासूरीश्वरकृतायां विदिनोविन्यां पञ्चमः सर्गः [ 269 भानुकूल्येन सहायतयेति यावत् , सहितः सपक्षस्तस्य भावः सपक्षता, प्रकृतिजन्यवोधे प्रकारीभूतस्यैव भावप्रत्ययार्थत्वनिर्णयात् / आश्रयविशेष्यकपक्ष-(सहायता) प्रकारकबोधे प्रकारीभूतस्य पक्षस्येव बोधनात् सहायतामित्यर्थः / ततान-विस्तारयामास // 20 // पयोधिलक्ष्मीमुषि केलिपल्वले, जिनेऽप्यनैकान्तिकता कृता जनैः / तटेऽपि साधारणया धिया श्रिते, कचिन्न लेभे ब्यभिचारचारिता // 21 // अन्वया–पयोधिलक्ष्मीमुषि, केलिपल्वले, जिने, अपि, जनः, अनेकान्तिकता, कृता, साधारणया, दिया, श्रिते, क्वचित् , तटे, अपि, व्यभिचारचारिता, न, लेभे // 21 // वृत्तिः–पयोधिलक्ष्मीमुषि-पयांसि जलानि धीयन्तेऽस्मिन्निति पयोधिः समुद्रस्तस्य लक्ष्मीः शोभा, पयोधिलक्ष्मीस्तां मुष्णाति चोरयतीति पयोधिलक्ष्मीमुटु तस्मिँस्तथा। पयोधिशोभावधिकाधिकशोभाशालिनीत्यर्थः / केलिपल्वले-क्रीडाल्पसरसि / जिने- अर्हति, भगवति शान्तिनाथे इत्यर्थः / अपि-समुच्चये। जनैः-लोकैः / अनैकान्तिकता-अनैकान्तिकत्वबुद्धिः / कृता-विहिता / केलिपल्वले सामान्यतः पयोधिशोभानाधायकत्वस्य जिनेश्वरसन्निधानात् , तदाधायकत्वस्य च सत्त्वात् जिनेऽपि च स्याद्वादात् अनैकान्तिकत्वं स्पष्टमवसेयम् / साधारणया-सामान्यया / बुद्धया-ज्ञानेन / श्रितेसेविते, आलि गिते विषयीकृते इति यावत् / कचित्-कुत्रापि / तटे-नीरे / अपि-सम्भावनायाम् / न्यभिचारचारिता-शोभया अव्याप्य वृत्तित्वम् , असार्वदिक्शोभाधायकत्वमिति यावत् / न-नहि / लेमे-आपि / केलिपल्वले जिने तीरे च व्यभिचरितशोभातिशयशालित्वमन्वमन्यतेति भावः // 21 // .. कदापि देवोऽकृत हंसमंशतो, रिरंसुहंसीकलनादसादरम् / सुवर्णवर्ण जिनवर्णने कृते, विडोजसा क्षोभयितुं मनोऽर्हतः // 22 // अन्वयः--विडोजसा, कदापि, जिनवर्णने, कृते, देवः, अर्हता, मनः, क्षोभयितुम् , अंशतः, सुवर्णवर्णम् , रिर सुहंसीकलनादसादरम् , हंसम् , अकृत / वृत्तिा-बिडोजसा-इन्द्रेण, ‘इन्द्रो हरिश्च्यवनोऽच्युताग्रजो, वनी विडोज़ा मघवान् पुरन्दरः' २-८५-इत्यभिधानचिन्तामणिः / कदापि-कस्मिँश्चिदपि समये / जिनवर्णने-श्री शान्तिनाथभगवत्तपश्चरणादिप्रशंसने / कृते-विहिते, सति / देवः-सुरः, सुरेन्द्रवचनमश्रद्दधानः कश्चित् स्वबलावलेपोद्धतोऽमर इति यावत् / अर्हतः-भगवतः श्रीशान्तिनाथस्य / मन:-चित्तम् / क्षोभयितुम्-चालयितुम् , अङ्गीकृतमार्गतोऽपसारयितुमिति यावत् / अंशत:-स्वावयवेन, परिमितात्मीयात्मप्रदेशान् सञ्चाल्येति