________________ 268 ] भीजननैषधीयमहाकाव्ये श्रीशान्तिनापरिष वृक्षः / दिवौकसाम्-वेवानाम् / सत्कारपदम्-आदरातिशयस्थानम् / चकार-कृतवान् // 18 // न धीरता तागिह क्षमाधरे, दधौ जिनो यामुदधौ गभीरता / निमज्ज्य मैनाकमहीभृतः सतः, परीक्षणाद् वाम्बुनिधेश्चलत्तया // 19 // अन्वयः--जिनः, याम्, (धीरतां गभीरतां वा) दधी, इह, क्षमाधरे, ताहक् , धीरता, वा, .. निमज्ज्य, सतः, मैनाक्महीमृतः, परीक्षणात् , अम्बुनिधेः, चलत्तया, उदधौ (ताहक्) गभीरता, न // 19 // वृत्तिः-जिन:-भगवानहन शान्तिनाथः / याम-यादृशीम् , धीरतां गम्भीरता वा / दधौधृतवान् / इह-अस्मिन् / क्षमाधरे-क्षमायाः पृथिव्या धरो धारक क्षमाधरः पर्वतस्तस्मिंस्तथा, पर्वतविशेषनामानभिधानेऽपि प्रकरणबलात् प्रशस्तत्वाच्च सुराचले, मेराविति यावत् / तादृक-. तादृशी / धीरता-धैर्य्यम् / वा-समुच्चये। निमज्ज्य-अन्तर्निमग्नीभूय | सत:-विद्यमानस्य / मैनाकमहीभृतः-इन्द्रकुलिशकरणकनिजपक्षच्छेदभीतस्य, सवेगपवनपातितस्य मैनाकाख्यपर्वतस्य / परीक्षणातपर्यवेक्षणात् , सम्पर्कादिति यावत् / अम्बुनिधेः-अम्बूनि सलिलानि निधीयन्तेऽत्रेत्यम्बुनिधिः समुद्रस्तस्य तथा / चलत्तया-चञ्चलतया / उदधौ-समुद्रे / ( तादृक् तीर्थकृच्छान्तिनाथगभीरतातुल्या) गभीरता-गम्भीरता। न-नहि // 19 // विपक्षतां यो गत एव योगतः, किमस्य शम्भोर्ननु पक्षताऽक्षता। पुरापि पारोपतपक्षिणो भये, ततान पक्षान धुवतः सपक्षताम् // 20 // __ अन्वयः-या, योगतः, एव, विपक्षताम् , गतः, किम् , अस्य, शम्भोः, नु, पक्षता, अक्षता, न, पुरा, अपि, पक्षान, धुवता, पारापतपक्षिणः, भये, सपक्षताम् , ततान // 20 // - वृत्तिः–यः-सकलैश्वर्य्यसम्पन्नो भगवान् शान्तिनाथ / योगतः-योगश्चित्तवृत्तिनिरोधस्तस्मात्तथा / एव-अवधारणार्थमव्ययम् / विपक्षताम्-पक्षः-परिवारः, सखा सहाय इति यावत् , तेन विरहितो विपक्षस्तस्य भावो विपक्षता तान्तथा / गत:-प्राप्तः / किम्-क्षेपेऽव्ययम् / अस्य-सन्निकृष्टतया वर्तमानायितस्य / शम्भोः -कल्याणभावकस्य, मङ्गलप्रदस्येति यावत् , भगवतः शान्तिनाथस्येति भावः। नु-वितर्के / पक्षता-साहाय्यम् / आनुकूल्यमिति यावद / अक्षता-परिपूर्णा / न-नहि, अपितु अझतैवेत्यर्थः / तथाहि-पुरा-पूर्वम् / अपि-सम्भावनायाम् / पक्षान्-पत्राणि / धुवतः-कम्पयतः / पारापतपक्षिण:-कपोताख्यविहगविशेषस्य / भये-साध्वसे, आतङ्के इति यावत् / सपक्षताम्-पक्षण